________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५३२
प्रायश्चित्ततत्त्वम् । किश्चिदक्षिणकक्कच्छ्रदयस्य निबन्धभिर्व्यवस्थापितत्वेनापालनकृतबधे तदधिकस्यायुक्तात्वात् वरं तत्तुल्यं कच्छ्रहयं युतामुत्पश्यामः। अतएव एतहिषय एव स्मृतिसागरसारे वृहदगिरा: । "अरक्षिते तु कूपादौ ते व्याघ्रादिभक्षिते । व्रताईमाचरेत् स्वामी रक्षिते नास्ति दूषणम्" ॥ व्रताई कामकतव्रताई नास्ति दूषणमिति यदि प्रमत्ता गौनिवारयन्तं पालमतिक्रम्य गर्तकान्तारादौ नियते तदा नेत्यर्थः। अन्यत्र सत्येव पालके सम्यक्पालनाभावेन खभादौ पाताहोमरणे प्रायश्चित्तमाह विष्णुः “पल्ललौघहकव्याघ्रश्वापदादिनिपातने। खमोहन्धनसर्पाद्यैर्मते पादोनमाचरेत् ॥ पालने तु कच्छ स्यात् शून्यागाराा पप्लवे" ॥ पादोनं प्राजापत्यमेव उत्तरवचने कच्छश्रवणात्। तथा “पादचाप्राप्तके देयो वत्से स्वामिन्यरक्षिते । अप्राप्तके अप्राप्तदम्यावस्थे विहारणपर्यन्ते इति यावत्। एवम्भूते वत्सेऽरक्षिते खभपातादिना मृते सति खामिना प्राजापत्यपादः करणीयः । अत्र पादमात्रप्रायश्चित्तत्वात् बालत्वादिना नानुग्रहः ततश्चाप्राप्तदम्यावस्थवरमा. पालननिमित्तकबधजन्यपापक्षयकाम इति प्रयोज्यम्। पत्र "विभृयावेच्छतः सर्वान् ज्येष्ठो भ्राता यथा पिता। माताशताः कनिष्ठो वा शक्त्यपेक्षा कुले स्थितिः ॥ इति नारदोक्तकहिरूपतया स्थितानामविभक्तानां संसृष्टानाचापालनाहोप्रणाशस्तकतमकतेन प्रायश्चित्तेन सर्वेषां पापनाश: “एकपाकेन वसतां पिलदेवहिजाचनम् । एकं भवेद्विभक्तानां तदेव स्यात् रहे रहे" ॥ इति वृहस्पतिवचनेन "भ्रातृणामविभक्तानामेको धर्मः प्रवर्तते। विभागे सति धर्मो हि भवेदेषां पृथक् पृथक् ॥ इति भारदवचनेन च एकत्रवासिनामिकतमकतवैदिककर्ममात्रेण सर्वेषां फलभागित्वात्। अन्य
For Private And Personal Use Only