________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वम् । मोयाः। तथा च मनुः। “अनिर्दशाहां गां सूतां वृषान् देवपशुंस्तथा। सपालान् वा विपालान् वा पदण्ड्यान् मनुखवौत्"। एतद्भिवानां येषाञ्च पालोऽस्ति तेऽपि मोच्याः। अर्थात्तत्र पालो दण्डनीयः। देवराजपरिप्लताः। गर्जादि. श्रवणात् सेनादिदर्शनाहा पलायिताः पशवो यदि क्षेत्रे चरन्ति तदा न दोष इत्यर्थः। पालकान्तरसत्त्वे तु मनुः। “दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्ग्रहे। योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतामियात्। दिवा पशूनां पालहस्तन्यस्तानां योगक्षेमविषये दोषे जाते पालकस्य गहणीयता रात्री पुन: पालप्रत्यर्पितानां स्वामिनां दोषः। अन्यथा यदि रात्रावपि पालहस्तगता भवन्ति तदा दोषे उत्पन्ने पाल एव गहणीयतां प्राप्नोति इति कुल्ल कभट्टः । स्मृतिसागरसार वृहदङ्गिराः। “अनागतस्य चानेता प्रागतस्य च रक्षकः। रावा. वपि यदान्योऽस्ति तदा स्वामी न दोषभाक" ननु दण्डप्रकरणोतमनुवचन प्रायश्चित्ते कथमिति चेन्न दण्डवत् प्रायश्चितानि भवन्तौति श्रुतेः तथा व्यवहाराच। एवञ्च “यनापवर्तते युग्यं वैगुण्यात् प्राजकस्य च। तत्र स्वामी भवेहण्डयो हिंसायां द्विशतं दमः । इति मनुवचने यत्र सारधेरकौशलात् यानम न्यथा गच्छति तत्र हिंसायाममुशिक्षित सारथि नियोगात् स्वामी द्विशतं दण्डं दाप्यः सादिति कुल्ल कभट्टव्याख्यानदर्शनात् अयोग्यपालकसमर्पणे स्वामिनो दोषातस्यैव प्रायश्चित्तमुक्तम्। "यावत् शस्य घिनश्येत्तु क्षेत्री तावत् फलं लभेत्। पालस्ताद्योऽथ गोस्वामी पूर्वोक्तं दण्डमईति" याज्ञवल्कावचने गवादिदोषेण यावत् शस्य विनश्यति। ताव. देव पालकात् प्राप्तव्यं पालकाशलो पालकस्तायः पूर्वोक्तं दण्डादिकमहतौति दर्शनाच। गोवधप्रायश्चित्ते पालकद्वयाः
For Private And Personal Use Only