________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५२७
"बोधने बन्धने चापि योजने च गवां रुजः । उत्पाद्य मरणं वापि निमित्तौ यत्र लिप्यते । पादञ्चरेद्रोधबधे हौ पादौ बन्धने चरेत् । योजने पादहौनं स्याञ्चरेत् सर्वं निपातने । निमित्तौ लिप्यत इति यथा कथञ्चित् मरणनिमित्ततारतम्येन "यो भूय प्रारभते तस्मिन् फले विशेषः" इत्यापस्तम्बवचनात् पापविशेषेण लिप्यते तद्विशेषात् प्रायश्चित्तविशेषमाह पादचरेदित्यादि। रोधः चौणाया गोराहारप्रचारनिर्गमविरोधः : । बन्धनमयथाबन्धनमकालबन्धनञ्च । योजनं हलशकटादौ योजन तत्त्रातिवाहादिनेति शेषः । अत्रैव विषये च्यवनः । " प्राजापत्यद्वयं गोहत्या प्रायश्चित्त' रोधनवन्धनयोक्तृबधे पादasar नखानि लोमानि शिखावजे सशिखं वपनं विसवनं गवानुगमनं सहशयनं सुमहत्तृणानि रथ्यासु चारयेत् व्रतान्ते ब्राह्मणभोजनमिति” । रोधनबन्धनयोक्तृवध इत्यादेरयमर्थः रोधनिमित्तकबधे प्राजापत्यस्य पादः प्रायश्चित्तं नखच्छेदनमात्रम् । बन्धननिमित्तबधे प्राजापत्यस्य द्वौ पादौ नखानां लोम्नाञ्च छेदनम् । योक्तनिमित्ते च बधे प्राजापत्यपादत्रयं नखलोम शिखावर्ज केशच्छ दनञ्च । दण्डादिप्रहारबधे संपूर्ण प्राजापत्यम् । नखलोमकेश शिखाच्छे दनञ्च इति कल्पतरुः । एतद्विषय एव मिताक्षराष्ट्रतं संवर्त्तवचनम् इत्येकवाक्यत्वात् । तदुयथा । "पादेऽङ्गलोमवपनं द्विपादे श्मश्रुणोऽपि च । विपादे च । शिखावर्जं समिखन्तु निपातने” ॥ अत्र प्राजापत्यस्य पादादित्वे किं मानमिति चेत् । पराशरवचनम् । " रोधने तु चरेत् पाद बन्धने चाईमेव हि । योजने पादहोनं स्यात् प्राजापत्यं निपातने । कृच्छ्रमज्ञानताड़ने” इति वार्हस्पत्यात् । दण्डोऽव हस्तप्रमाणो ब्राह्मः । तदधिके तु द्विगुणप्रायवित्तविधानात् । यथाऽङ्गिराः ।
'श्रङ्गष्ठमात्रः
For Private And Personal Use Only
66