________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२६
प्रायश्चित्ततत्त्वम् । बधे व्यापनानां बहनामिति पूर्वोक्तवचनात् एक कपुरुषस्य हिपादं कृत्वा प्रायश्चित्तं प्रयत्नभेदे तु गोनवदित्यनेन तन्त्रताया प्रभावात् प्रत्येकं प्रतिपुरुष हिपादावृत्तिरिति। एतबाकामतो बधे द्रष्टव्यम् । देवादिति विशेषोपादानात् कामकृते तु बहनामपि प्रत्येकं कत्नदोषसम्बन्धात् पूर्णप्रायश्चित्तं युक्तम् सत्रियां फलमिव प्रतिपुरुषसतम्रव्यापारसमवायात् । "एक नतो बहनाच यथोक्ताहिगुणो दमः ॥ इति प्रत्येक दण्डहे गुण्यदर्शनाचेति मिताक्षरा। वस्तुतस्तु सर्वत्र पापे “स्थावकामकते यस्तु हिगुणं बुद्धिपूर्वके ॥ इत्यङ्गिरो वचनेमाज्ञानात् ज्ञाने हेगुण्यदर्शनादत्रापि ज्ञान हिपाद एव युक्ताः । सत्रे तु सप्तदशावरा ऋद्धिकामाः सत्रमुपासौरनिति श्रवणातथेति। एक प्रतामिति परवचनन्तु गोवधातिरिक्त विषयम् । गोबध एकाचेदित्युपदेशेन दण्डवत् प्रायश्चित्तानि भवन्तीत्यतिदेशानवसरात्। तदवसरले प्रत्येक पूर्ण प्रायश्चित्तहैगुण्यं स्यात् न पूर्ण प्रायश्चित्तमात्रम् प्रतएव प्रायश्चित्तविवेके एक घ्नतां बहनामिति मनुष्य बधे उक्तं बहुभिारत्यपादानात् हाभ्यां हनने तु प्रत्येकं सम्पर्णप्रायश्चित्तम् । ___ अथै कहायनादि गोवधप्रायश्चित्तम्। वृप्रचेताः । “एकवर्षे गवि हते कच्छ्रपादो विधीयते। अबुद्धिपूर्व पुंसः स्यात् हिपादस्तु हिहायने। विहायणे विपादः स्यात् प्राजापत्यमतः परम् ॥ इदमपि प्रायश्चित्तलाघवेन अबुद्धिपूर्वकाधमशूट्रस्खामि कबधविषयमिति प्रायश्चित्तविवेकः। तेन यत्खामिकबधे यत् प्रायश्चित्त तस्यैव तत्र पादादिकमूहनौयमत एवातिबालामित्यत्र तस्यैवोक्तम् अतःपरम् चतुर्हायणे इत्यर्थः बुद्धिपूर्वे एतदेव दिगुणमित्यर्थः ।
अथ रोधादिनिमित्तक गोबधप्रायश्चित्तम्। अङ्गिराः ।
For Private And Personal Use Only