________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२२
प्रायश्चित्ततत्त्वम् । गुरुप्रायश्चित्तान्तरं बोध्यम्। “समहिगुणसाहस्रमानन्त्वन यथा क्रमम्। दाने फलविशेषः स्यात् हिंसायां तहदेव हि। इति दक्षवचनात् । “सममब्राह्मणे दानं द्विगुणं ब्राह्मणब्रुवे। अधौते शतसाहसमनन्तं वेदपारगे" ॥ ब्राह्मणब्रुवश्वाङ्गिरसोक्तः यथा। "गर्भाधानादिसंस्कारैर्युक्तश्च नियमवतैः । नाध्यापयति नाधोते स ज यो ब्राह्मणब्रुवः” ॥
क्षत्रियसम्बन्धिन्या गोबंधे तु देवलः । “मोघ्नः षण्मासान तञ्चर्मणा परिवृतो गोग्रासाहारो गोव्रतो यवाशी गोभिरभिसञ्चरन् विप्रमुच्यत इति । गोग्रासाहारो गोग्रासाहर्ता कर्मण्यनिति साधुः। षण्मासयावकभक्षणं हादशप्राजापत्यतुल्य दक्षिणा च विशेषानुपदेशाद् यथाशक्ति देयेति। एतजज्ञानादज्ञानादई स्त्रीशूद्रबालवृद्धानामईम् एकस्योभयपरत्वे पादः ।
वैश्य सम्बन्धिन्या गोबंधे तु। शातातपः। “पञ्चगव्येन गोघाती मासकेन विशुद्धाति। गोमतोच जहियां गवां गोष्ठे च संवसेत्” ॥ पञ्चगव्यमाह शातातपः। “गोशकत दिगुणं मूत्र सर्पिविद्याच्चतुर्गुणम्। ज्ञौरमष्टगुणञ्चैव पञ्चगव्ये तथा दधि ॥ तथाष्टगुणम् । यमः । “आहृत्य प्रणवेनैव उत्थाप्य प्रणवेन च । प्रणवेन समालोय प्रणवेनैव तत् पिबेत् ॥ उत्ताप्य मिश्रौलत्य एतदैकल्पिकं द्रव्यपरिमाणानन्तरम् । मन्त्रान्तरञ्च ग्रन्थगौरवात्रोक्तम्। गोमतीविद्यामाह। प्रायश्चित्तकाण्डकल्पतरौ यमः। “गोमती कीर्तयिष्यामि सर्वपापप्रणाशिनौम्। तास्तु मे गदतो विप्राः शृणुध्वं सुसमाहिताः ॥ गाव: सुरभयो नित्य मावो गुग्ग लुगन्धिकाः। गावः प्रतिष्ठाभूतानां गाकः स्वस्त्ययनं महत्॥ अवमेव परं गावो देवानां इविरुत्तमम्। पावनं सर्वभूतानां क्षरन्ति च हवींषि च ।।
For Private And Personal Use Only