________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
५२१
पाटने कर्णशृङ्गायां मासाईन्तु यवान् पिवेत्” ॥ स्मृतिसागरे गोभिलः । “कर्णलाङ्गलयो दमस्थिभङ्गं विधाय च । प्राजापत्यव्रतं कुर्य्यचत्वारो ब्राह्मणादयः " ॥ पत्र यत् शूद्रस्य द्दिजतुल्यप्रायश्चित्तमुक्त तदस्थिभङ्गादिमात्रपरं वैश्य तुल्यशूद्रमात्रपरं वा एवञ्च यत् प्रायश्चित्तविवेके मासयावकपानं कचित् द्वादशप्राजापत्यतुल्यमुक्तं तद् गोमूत्रमात्रसिद्दयावकपरं क्वचिच प्राजापत्यद्दयतुल्यं तत् सिद्धानन्तरप्रक्षिप्त-गोमूत्र परमित्यवि रोधः । मासहयचतुर्थ कालभोजने विंशदुपवासास्त्रिंशता नक्शोपवासाः । तथा च शूलपाणिमहामहोपाध्यायैस्त्रिंशश्च निरन्तरोपवासाः पञ्चदश प्राजापत्यतुल्याः । मासोपवास धेनु संकलने उक्ताः । अनेकान्तरितत्वादितिकर्तव्यतायोगाच्च । एकादशप्राजापत्यतुल्याः तत्र त्रिंशन्नक्तभोजनं चतुः प्राजापत्यतुल्यं मिलित्वा त्रैमासिकव्रतं सप्तदशप्राजापत्यतुल्यं तदभावे सप्तदशधेनवो देया इति बहुसम्मता व्यवस्था । भवदेवभट्टसमता तु द्वादशधेनव इति पूर्वोक्ता च दक्षिणा देया । तदशक्तौ एकपञ्चाशत् षट्विंशद्दा कार्षापणा देया । दक्षिणायान्तु वृषभमूल्य कार्षापणपञ्चकं गोदकमूल्य कार्षापणदशकमिति । पञ्चदशकार्षापणाः एतच्च ज्ञानत इति । अज्ञानतोऽर्द्धम् । ततो ब्राह्मणान् भोजयित्वा गौरेका दक्षिणा देया । " भुक्तवत्सु च विप्रेषु गां वै दद्याद्विचक्षणः । गवामभावे दातव्यं गोमूल्यञ्च न संशयः " ॥ इति संवर्त्तवचनात्तन्मत्यं कार्षापणमेकं वा दद्यात् एतच्च शस्त्रमुष्टिलोट्रल गुड़ विषाग्न्यादिभिः प्रायिक मृत्युफलकैईनने बोध्यम् । तथा वृहस्पतिः । " शस्त्रादिना तु गां हत्वा मानवं व्रतमाचरेत्” । स्त्रौशूद्रबालवृद्दानामर्द्दम् एकस्योभयपरत्वे पादः । एवञ्च ब्राह्मणादीनां सगुणत्वनिर्गुणत्वादिना कालदेशादितारतम्येन च लघु
For Private And Personal Use Only
A