________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
५२. प्रायश्चित्ततत्वम् । गोनो न तु यागाद्यर्थ गोवधकापि अतएव सामान्यत उ हारौतेन "वृथा पशुधाते प्राजापत्यम्"। इति यागाद्यर्थोऽपि गोवधः कलौ निषिद्धः । “दीर्घकालं ब्रह्मचर्य धारणं च कमण्डलीः। गोत्रान्मासपिण्डाहा विवाहो गोवधस्तथा । नराखमेधौ मद्यश्च कलौ वज्यं द्विजातिभि":॥ इति हलायुधशूलपाणिग्रहस्थरत्नाकरकृतब्रह्मपुराणावचनात्। मद्ये निबेधं स्पष्टयत्युशना । "मद्यमपेयमदेयमनियमिति । एवञ्च दुर्गापूजादौ यमबदानमुक्तं तत्कलौतरपरम् । वातवाय: कृतसशिवपनो इतगवौचमचा कृतपरिधानोत्तरावगुण्ठनो मासत्रयं गोष्ठे वसेत्। तत्र प्रथममासं यवान् यवागूकतान् पिबेत्। अपरमासहये चतुर्थकालमनौयात्। पूर्वदिने उपोष परदिने रात्रौ भुञ्जोत। मुनिभिहिरशनं प्रोक्तमिति श्रवणात्। अक्षारलवणम् प्रकविमलवणं मितं स्वल्पम् । मासत्रयांनाह. दिवानुगच्छेत् इति । अनुः महार्थः । तिष्ठन्तौष्वित्यादिषु बौनां धर्मः कार्यः। स चात्मक्लेशकरः वौरासनं भित्त्याद्यनाथित्योपवेशनम् अभिशस्ताम् अतिक्रान्त भयभयनिमित्तैः सर्वप्राणैः सर्वसामर्थ्यः । विमोचयेत्तदपसारयेत्। अतएव विष्णुपुराणम्। “समं नयति यः क्रूहान् सर्वबन्धुरमत्सरः। भौताखासनकत् साधुः स्वर्गमस्याल्पक फलम्" ॥ गां न कथयेनिवारणाभिप्रायेण पिबन्तं स्तन्यमिति शेषः। सुचरितव्रतः सम्यक्चरितव्रतः। दक्षिणार्थ वृषभसहितदश गा दद्यात् तदभावे स्वल्पमपि सर्वस्व दक्षिणार्थ दद्यात्। धेनुसंकलनमा। वैमासिकवते. मासयवपानं प्राजापत्यद्दयतुल्यं यतो यमेन अख्यादिभने मासाईयवपानमुक्त तत्रैव गोभिलेन प्राजापत्यमुक्तम्। यथा भवदेवभवतयमवचनम्। “अस्थिभङ्गं गवां कृत्वा लालच्छेदनं तथा।
For Private And Personal Use Only