________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
५२३ हविषा मन्त्रपूतेन तर्पयन्त्यमरान्दिवि। ऋषीणामग्निहोत्रेषु गावो होमप्रयोजिका: ॥ पावनं सर्वभूतानां गावः शरणमुत्तमम्। गावः पवित्र परमं गावो मङ्गलमुत्तमम् ॥ गाव: स्वर्गस्य सोपानं गावो धन्याः सनातनाः। नमो गोभ्यः श्रीमतौभ्यः सौरभयोभ्य एव च ॥ नमो ब्रह्मसुताभ्यश्च पवित्राभ्यो नमो नमः। ब्राह्मणाश्चैव गावच कुलमेकं विधाकतम् ॥ एकत्र मन्त्रास्तिष्ठन्ति हविरन्यत्र तिष्ठति ॥ मन्त्राज्ञाने मिताक्षरायां षट्त्रिंशतम्। "जपहीमादि यत्किञ्चित् कच्छ्रोक्तं सम्भवेन चेत्। सर्व व्याहृतिभिः कुर्यात् गायनया प्रणवेन च” ॥ गवां गोष्ठ इति श्रवणकुण्डलवत् तात्कालिकगोसत्त्वावबोधाय गोमतोजपसहितमासपञ्चगव्यपानं प्राजापत्यपञ्चकतुल्यम् एतदजानकते ज्ञानक्कते तु हैगुण्यम् । स्त्रौशूद्रवालवृद्धानामर्द्धम् एकस्योभयधर्मपरत्वे पादः। शूद्रसम्ब. धिन्या गोर्बधे तु विश्वामित्रः। “कृच्छ्रांस्तु चतुरः कुर्यात् गोवधे बधिपूर्वके। अमत्या च इयं कायं तदह बालबाहयोः । स्वोशूट्रयोरेवमेतदधे चैव न संशयः॥ कच्छ्रान् प्राजापत्यानि। तच्चतुष्टयाशक्तौ चतस्रो धेनवः। हादश कार्षापणा वा। एतज्ज्ञानकते अज्ञानलते प्राजापत्यवयं तदशक्ती हे धेनु षटकार्षापणा वा देयाः। स्त्रौशूद्रबालवृद्धानामईम् । एकस्योभयधर्मपरत्वे पादः। स्वामिकतविशेषस्तु प्रायश्चित्तविवेकानुसारादुक्तः। व्यवस्था तु तदुपदेशकं वस्त्रादिना परितोष्ण ग्राह्या। पत्रदाने तु शूट्रेशाज्ञानकृतशूद्रस्वामिकगवीबधजन्य पापक्षयाय प्राजापत्यव्रतं प्रायश्चित्तं करणीयम् । तदशता वेकधेनुदानं तदशती कार्षापणत्रयम्। दक्षिणा च यथाशक्ति दातव्या। एतत्सर्वं पूर्वदिने सशिखवपनं कारयित्वा वृतं प्राध्य उपोष्ण करणीयम् । प्रायश्चित्तानन्तरं पार्वणविधिना
For Private And Personal Use Only