________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्वम्।
५११ मथाप्या पादं वापि विधानतः। ज्ञात्वा बलाबलं कालं प्रायश्चित्तं प्रकल्पयेत् ॥ पादं वेति पादमेवेत्यर्थः। “वा स्थाहिकल्पोपमयोरेवार्थे च समुच्चये। इति विश्वदर्शनात्। अतएव “पादं वैति ततो न्यनं प्रायश्चित्तं न कल्पयेत् इति प्रायश्चित्तविवेकः । शास्त्रीयं प्रायश्चित्तमुदाहृत्य पश्चादनुग्रह: कार्य: इत्याहाङ्गिराः। “कत्वा पूर्वमुदाहारं यथोक्त धर्मवर्तिभिः । पश्चात् कार्यानुसारेण शक्त्या कुर्वन्त्यनुग्रहम् ॥
अथ प्रायवित्तोपदेशादि। यमः। "एको हो वा त्यो वापि यद ब्रूयुर्धर्मपाठकाः। स धर्म इति विज्ञेयो नेतरेषां सहस्रशः ॥ अवधातातपः। “प्रबुद्धा धर्मशास्त्राणि प्रायवित्तं वदन्ति ये। प्रायश्चित्तौ भवेत् पूतस्तत्यापं तेषु गच्छति"। अतएव यमः । “वेदाः प्रमाण स्मृतयः प्रमाणं धमार्थसंयुक्तवचः प्रमाणम्। यस्य प्रमाणं न भवेत् प्रमाणं कस्तस्य कुयाहचनं प्रमाणम्" धर्मार्थसंयुक्तवच:मीमांसकसविबन्धवाक्यम्। यस्येत्यनन्तरीक्तं प्रमाण एवं यो न मन्येत इत्यर्थः । मनुरपि। "पा धर्मोपदेशश्च वेदशास्त्राविरोधिना। यस्तकेंणानुसन्धत्ते स धर्म वेद नेतरः” ॥ ऋषिजष्टत्वादा वेदं धर्मोपदेशं तम्मलं स्मृत्यादिकम्। यस्तदविरुछन तकण मौमांसादिना अनुसधत्ते विचारयति स धर्म वेद जानाति न तु मौमांसानभिन्नः । प्रतएव भट्टपादैरताम्। “धर्म प्रमीयमाणे हि वेदेन करणामना। इति कर्त्तव्यतामागं मौमांसा पूरयिष्यति ॥ इति मौमांसा वेदविचारः। सा च कर्मब्रह्ममेदात् जैमिनिवाद. रायणप्रणीता द्विविधा। अतएव वृहस्पतिः। “केवलं शास्त्रमाश्रित्य न कर्तव्यो विनिर्णयः। युक्ति हीनविचारे तु धर्महानिः प्रजायते । वशिष्ठोऽपि। “इतिहासपुराणाभ्यां वेदं समुपहहयेत्। विभेत्यल्पश्रुताद्देदो मामयं प्रहरिष्यति ।
For Private And Personal Use Only