________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् । स्मृता। गङ्गायां यदि लभ्येत कोटिसूर्यग्रहै: समा। शुभयोगसमायुक्ता पनौ शतभिषा यदि। महामहेति विख्याता चिकोटिकुलमुद्धरेत्” । ब्रह्मपुराणम् । “महाज्यैष्ठयान्तु यः पश्येत् पुरुषः पुरुषोत्तमम् । विष्णुलोकमवाप्नोति मोक्षं गङ्गाम्बुमज्जनात् । ऐन्द्र गुरुः शशी चैव प्राजापत्ये रविस्तथा । पूर्णिमा गुरुवारेण महाज्यैष्ठी प्रकीर्तिता" । ऐन्द्रे ज्येष्ठायाम्। प्रजापत्ये रोहिण्याम् । विना गुरुवारणापि। “ऐन्द्रे गुरुः शशौ चैव प्राजापत्ये रविस्तथा। पूर्णिमा ज्येष्ठमासस्य महाज्येष्ठौ प्रकीर्तिता” ॥ अनुराधास्थ गुरावपि । “ऐन्द्र मैने यदा औवस्तत्पञ्चदशके रविः। पूर्णिमा शक्रचन्द्रेण महाज्येष्ठौ प्रकोर्तिता" ॥ अनुगधास्थ चन्द्रेऽपि व्याघ्रभूतिः। “ऐन्द्र वथवा मैने गुरुचन्द्रो यदा स्थितौ। पूर्णिमा ज्येष्ठमासस्य महाज्येष्ठौ प्रकीर्तिता ॥ राजमार्तण्डे । “ज्यैष्ठसंवत्सरे चैव ज्येष्ठमासस्य पूर्णिमा। ज्येष्ठाभेन समायुक्ता महाज्य ष्ठी प्रकीर्तिता" ॥ ज्येष्ठ संवत्सरः "ज्येष्ठामूलोपरी जोवे वर्ष स्यात् शक्रदैवतम् । इति विष्णुधर्मोत्तरोतो ग्राह्यः। न तु संवत्सरादिपञ्चकान्तर्गतो वर्षविशेषः। ज्येष्ठः इति विशेषणवैयापत्तेः। संवत्सरे यदि स्यादिति पाठस्तु काल्पनिकः । प्रपञ्चस्तु मलमासतत्त्वेऽनुसन्धेयः। वारुण्यादिषु पूर्णतिथी मध्याङ्गादिसमये नक्षत्र सत्त्वे परदिने पूर्वाह्नतिथिनक्षत्रलाभेऽपि पूर्वदिन एव मानम्। षष्टिदण्डात्मिकायाश्च तिथेनिष्क्रमणे परे। अकम्मण्यं तिथिमलं विद्यादेकादशी विना" ॥ इति स्मृतेः । न च "कम्मणो यस्य यः कालस्तत्कालव्यापिनो तिथिः। तया कर्माणि कुर्वीत ह्रासद्धौ न कारणम्" ॥ इति वृदयाज्ञवल्क्यवचनात् । “मैत्रं प्रसाधनं सानं दन्तधावनमञ्जनम्। पूर्वाह्न एव कुर्वीत देवतानाच
For Private And Personal Use Only