________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८६
प्रायश्चित्ततत्त्वम् ।
पराईद्वितयं यावत् नात्र कार्यया विचारणा ॥ षण्मासमेकन्त्व
1
परं सक्कदेवोत्तरायणे । एतदेव भवेत् पुण्यं विषुवे च तथैव च” ॥ ब्रह्माखे । संक्रान्तिषु व्यतीपाते ग्रहणे चन्द्रसूर्ययोः । पुष्ये स्नात्वा तु गङ्गायां कुलकोटौः समुद्धरेत्” ॥
व्यतौपातमाह वृहन्मनुः । " श्रवणाविधनिष्ठार्द्रा नागदैवतमस्तके | यामारविगरेण व्यतीपातः स उच्यते ॥ नागदैवतमश्लेषा | मस्तकं मृगशिरः । गङ्गामृतग्रन्ये भवि ष्यपुराणम् । “ चतुर्दश्यां यदा योगो व्यतीपातेन चार्दया । तदा पुण्यतमः कालो देवानामपि दुर्लभः ॥ तदा यः नाति गङ्गायां भक्त्या तत्फलमाप्नुयात् । यत्र यत्र विपक्षो हि गङ्गा मरणजन्तु सः ॥ व्यतौपातेन चन्द्रमा इति गङ्गावाक्यावल्युतपाठोऽनन्वितत्वाद्देयः । तथा " ग्रामनो जन्मनक्षत्रे जाह्नवी गाङ्गते दिने । नरः खात्वा तु नङ्गायां कुलकोटोः समुद्धरेत्॥ नक्षत्रद्वैधे मार्कण्डेयपुराणम् । “तत्रतत्रमहोरात्रं यस्मिन्रस्तं गतो रविः । यस्मिन्नुदेति सविता तनक्षत्र दिनं स्मृतम्” ॥ पूर्वामुपवासन कभक्तषु । “तत्रैवोपवसेदृते यनिशौचादधो भवेत् । उपवासे वट्टतं स्यात्तद्धि नक्तकभक्तयोः " ॥ इति स्कन्दपुराणात् । " उपोषितव्यं नचत्रं येनास्तं याति भास्करः । यत्र वा युज्यते राम निशोथे शशिना सह” ॥ इति विष्णुधर्मोत्तराञ्च । यस्मिन्नुदेतौति तु परिशेषात् खानादाविति । गङ्गामर्थ्यावतरणमाह श्रादित्यपुराणम्। "वैशाखे शुक्लपक्षे तु तृतीयायां जनार्दनः । यवानुत्पादयामास युगचारब्धवान् कृतम् ॥ ब्रह्मलोकात् त्रिपथगां पृथिव्यामवतारयत् । तस्यां कार्य्यो यवैर्होमो यवैर्विष्णुं समर्चयेत् ॥ यवान् दद्यात् द्विजातिभ्यः प्रयत: प्राशयेद यवान् । पूजयेच्छङ्करं गङ्गां कैलाशच हिमालयम् ॥ भगोरथञ्च नृपतिं सागराणां सुखावहम्” a
For Private And Personal Use Only