________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्ततत्त्वम् ।
४८६
बल्याम् । “संवत्सरं हिमासोनं पुनस्तीर्थं व्रजेद्यदि । मुण्डन चोपवासञ्च ततो यत्नेन कारयेत्” ॥ एतेन दशममासाभ्यन्तरे पुनर्गमने मुण्डनोपवासौ न काय्याविति सूचितम् एवं तीर्थ प्राप्तिनिमित्तकश्राहमपि । श्राकाङ्गायास्तोल्यात् । तदुक्तं भट्टपादैः । " काकेभ्योरक्षतामन्त्रमिति वालोपदेशतः । उपघातप्रधानत्वात् किं खादिभ्यो न रच्यते” ॥
।
।
स्कान्दे । “मुण्डनञ्चोपवासञ्च सर्वतीर्थेष्वयं विधिः । वर्ज - यित्वा गयां गङ्गां विशालां विरजां तथा” ॥ यत्तु “ गङ्गायां भास्करक्षेत्रे मातापित्रोर्मृते गुरौ । प्राधाने सोमपाने च वपनं सप्तसु स्मृतम्” ॥ इति स्मृतिसमुच्चयलिखितवचनं भास्करक्षेत्र' प्रयामः । तत्र पूर्ववचनं सामान्यतो गङ्गायां निषेधकं परवचनन्तु प्रयागावच्छिन्न्रगङ्गायां विधायकमिति न विरोधः । सप्तमत्वन्तु गङ्गात्व भास्करक्षेत्रत्वभेदात् । अत्र सर्वतौ पुराणभारतादिप्रसिद्द देशविशेषतौर्थपरं शिष्टपरिग्रहात् प्रयागेऽकरणे दोषोऽपि । तथा च " गङ्गायां भास्करचेत्रे मुण्डनं यो न कारयेत् । स कोटिकुलसंयुक्त प्राकल्प रौरवे वसेत्” ॥ अत्र गङ्गाप्रयागयोवैशिष्ट्य स्फुटम् । प्रयागे स्वौणामप्रि मुण्डनं न तु वच्यमाणवचनाभ्यां केशानां हाङ्गुलच्छेदमात्रम् । “केशमूलान्युपाश्रित्य सर्वपापानि देहिनाम् । तिष्ठन्ति तीर्थनानेन तस्मात्तान्यत्र वापयेत्” ॥ इति वचनात् । अत्र कारयेत् वापयेत् इति श्रवणात् वपनं कारयिष्ये इति प्रयोगः । मुण्डने फलमपि तथा च प्रयागमधिकृत्य " केशानां यावती संख्या दिनानां जाह्नवौजले । तावद्दर्षसहस्राणि स्वर्गलोके महीयते ॥ यावन्तौ नखलोमानि वायुना प्रेरितानि वै । पतन्ति जावतोये नराणां पुण्यकर्मणाम् ॥ तावद्दर्षसहस्राणि स्वर्गलोके महीयते" ॥ सर्वतीर्थेष्वित्यत्र कमधारयः ।
४२.
For Private And Personal Use Only