________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४८१
I
हेतुकम् । पूर्वा ऽप्यथवा प्रातदेशे स्यात् पूर्वदक्षिणे" || पूर्वाह्न सङ्गवे पूर्वदक्षिणे अम्मिको । पिण्डदानमिति श्राद्धासम्भवे केवलपिण्डदानमिति न पौनरुक्त्यम् । पिण्ड प्रतिपत्तिमाह मत्स्यपुराणम् । “पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । तीर्थश्राडे सदा पिण्डान् चिपेत्तीर्थे विचक्षणः” । महाभारते । “यो लुब्धः पिशुनः क्रूरो नास्तिको विषयात्मकः । सर्वतीर्थेष्वपि स्नातः पापो मलिन एव सः ॥ तथा "विषयेष्वतिसंरागो मानसोऽमल उच्यते । तेष्वेव हि विरागेऽस्य नैर्मल्यं समुदाहृतम् । पिण्डदान' तपः शौच तीर्थसेवाश्रुतन्तथा । सर्वाण्येतान्यतीर्थानि यदि भावो न निर्मलः” भाव: सात्विक राजसतामसान्धतममनोवृत्तिः स च निर्मल: सात्त्विक इत्यर्थः । एतानि तोयें कृतान्यपि श्रतीर्थान्यतोर्थकृतानि । यथा " प्रतिग्रहादपावृत्तः सन्तुष्टो येन केनचित् ।
#
ङ्कारविमुक्तश्च स तोर्थफलमश्रुते ॥ तीर्थेन प्रतिग्टलीयात् पुण्येष्वायतनेष्वपि । निमित्तेषु च सर्वेषु श्रप्रमत्तो भवेन्नरः” ॥ निमित्तेषु संक्रान्त्यादिषु । तथा " खकार्ये पितृकार्येऽपि देवताभ्यर्चनेऽपि वा । निष्फलं तस्य तत्तीर्थं यावत्तद्दनम श्रुते” ॥ शङ्खः । " तोर्थं प्राप्यानुषङ्गेन स्रानं तौधें समाचरन्। नानजं फलमाप्नोति तीर्थयात्रा फलं न तु ॥ तथा " यस्य पादौ च हस्तौ च मनश्चैव सुसंयतम् । विद्या तपश्च कौर्त्तिश्च स तौर्थ - फलमश्रुते ॥ नृणां पापकृतां तीर्थे भवेत् पापस्य संक्षयः । यथोक्तफलदं तौर्थं भवेच्छुद्धात्मनां नृणाम् ॥ हस्तसंयमोऽत्र निन्दितप्रतिग्रहादिनिवृत्तिः । पादसंयमस्तु श्रगम्यदेशादिगमननिवृत्तिः । मनःसंयमः कामक्रोधादिनिवृत्तिः । विद्या तत्तत्तीर्थफलबोधकसच्छास्त्रवेदाद्यधिगमरूपा । तपः श्रमिप्रादिनिवृत्तिः । कौर्त्तिर्धर्मार्थतीर्थगमने धार्मिकत्वादिना प्र
For Private And Personal Use Only