________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४८२
प्रायश्चित्ततत्त्वम् । योगसिद्धिरिति चेन्न मरणवैकल्पिकचतुर्विशतिवार्षिकव्रतप्रतिनिधिधेनुदाने एतद्यागप्रतिनिधिधेनुदानसम्भवात् गुरुप्रायश्चित्तेनैव लघुपापनाशस्य वक्ष्यमाणत्वाच। अथ यत्र विहितयवादौनामवघातादिना नाशे यवादिसाध्यत्वं पुरोडाशस्य म स्यादतोऽवयवपर्यन्तः शास्त्रार्थः। एतच्च यवानामपचारे प्रतिनिधीभूतगोधमादिगतयवाद्यवयवेषु प्रत्यभिज्ञानसम्भवात् प्रतिनिधिन्यायावसर इति । अथ गोधमादिगताः कथं यवाद्यवयवा: न खल्वन्यनान्यावयवाः सम्भवन्ति । उच्यते । अवयवाः खलु केचन यवादिमात्राणां केचन गोधममात्राणां केचन उभयवर्गाणां निष्पादकाः । तत्रोभयनिष्पादकानामुभयत्र सम्भवात् गोधमादिगता अपि यवाद्यवयवा यवाद्यवयवत्वेन प्रत्यभिज्ञायन्ते व्यवनियन्ते च । किन्तु यवादिमात्रारम्भकाणामसम्मवान् तदितरमात्रारम्भकाणाञ्च सम्भवात् न यागादौनां पूर्णनिष्पत्ति: प्रतो मुख्यालाभ एव प्रतिनिधिरिति अतएव जीभूतवाहनप्रभृतिभिरक्त यथा मुगापचार माष. प्रतिनिधौ मुहानां माषाणाञ्च यज्ञसम्बन्धेऽयजिया वै माषा इति माषा निषिताः माषगतमुहावयवोपादानेऽपि माषायां यज्ञसम्बन्धो नास्तीति वक्तं न शक्यते माषामिश्रितानामेव यज्ञसम्बन्धप्रतीतेरित्यन्तेन तत्र माषामिश्रितानामिति माघमात्रारम्भकावयवामिश्रितानामित्यर्थः अन्यथा मुझेऽप्युभवारम्भकावयवत्वे माषारम्भकस्यापि तत्र सत्त्वात् यागे तद्ग्रहणमनुपपन्न स्यात्। अतएवोक्त यत्र यत्र सौसादृश्यं तत्र तत्रावयवानां भूयस्त्व न त्यागायोगात् । सुसदृशा एव रह्यन्ते तस्यासम्भवे तु यत्किञ्चिदवयवसत्वेनापौति। परिशिष्टप्रकाशेऽपि। यत्र विहितद्रव्यावयवा एव प्रत्यभिज्ञायन्ते यथा गवये गवावयवास्तत्र हि प्रतिनिधिन्याय इत्युक्ताम् ।
For Private And Personal Use Only