________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चिततत्वम् ।
४७ च प्रायश्चित्तविवेके दण्डनिपातप्रायश्चित्तेनैव गुरुणा तबान्तरी. यकस्यावगोरणस्य प्रायश्चित्तमपि सम्पद्यते इत्यु ताम्। ननु दगड निपातप्रायश्चित्तात् तदनन्तःपातिनोऽवगोरणप्रायश्चित्तस्य कथं सिद्धिः । तथा हि मनुः । “अवयं चरेत् कच्छमतिकच्छ निपातने" ॥ अवगूर्य ब्राह्मणताड़नाथ दण्ड मुद्यम्य शतयातनाजनक यत् पापमुत्पादित तत्पापक्षयकामः कच्छं प्राजापत्यव्रत चरेत् । तदुक्त शंयधिकरणे। शंयोः प्रजापतेः प्रार्थनया देवैाह्मणावगोरण फलत्वेन शतयातनाभिहिता। तथा च श्रुतिः। “शंयुः प्रजापतिः प्रजाविनेता प्रजाहितेरतश्च देवानां हविर्वहनाशिषोऽयाचत देवास्त्ववगोरणेशतयातनास्त्वित्याशिषो ददत" इति शास्त्रदीपिकादौ दर्शपौर्णमासप्रकरणे "देवा वै शंयुवाहस्पत्यम् अब्रुवन् हव्यं नोवहेति किं मे प्रजाया इति ते ब्रुवन् यो ब्राह्मणायावगुरत्तं शतेन यातयेद् यो निहन्यातं सहस्रेण यो लोहितमकरोत् यावतः पांशून् व्यक्ति तावतः परिवत्सरान् स स्वर्गात् प्रयवेत् तस्मात् ब्राह्मणानावगुरेत् न हन्यात् न लोहित कुर्यात् इति । इतिहासात्मकं ब्राह्मणञ्च। अत्र संशयः। ब्राह्मणावगोरणादिनिषेधोऽयं दार्थः पुरुषार्थो वेति। अत्र पूर्वपक्षः । प्रकरणात् दार्थोऽयं दर्शऽवगोरणादिक न कार्यमित्यर्थः । तदुक्त फलाभावात् क्रतोसापि प्रकतत्वात् तदर्थता इति अत्र राहान्ताय जैमिनिसूत्रम्। शंयौ सर्वपरोदानादिति। शंयो शंयुपदयुक्तप्रागुक्त ब्राह्मणसंज्ञकवेदेवगोरणाद्यभावो न दर्शया गाङ्गं कुतः सर्वपरौदानात् प्रकरणात् वाक्यस्य बलवत्त्वेन सर्वस्मिन् कालेऽवगोरणादीनां खण्डनात् तदुतम्। “लप्तत्वात्तु फलस्यायं पुरुषार्थो न तु क्रतोः इति ॥ ननु कथमाशु विनाशिनोऽवगोरणस्य कालान्तरभाविशतयातनाहेतुत्वम् इति
For Private And Personal Use Only