________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । स्तस्या मटन्ति विपिने स्त्रियः ॥ तां विन्ध्यवासिनी वन्दे षष्ठीमाराधयन्ति च । कन्दमूलफलाहारा लभन्ते सन्ततिं शुभाम् ।। कन्दं सूरणादिमूलं तदितरत् भविष्ये “येयं मार्गशिर मासि षष्ठी भरतसत्तम ! । पुण्या पापहरा धन्या शिवा शान्ता गुहा प्रिया ॥ देवीपुराणे चैत्र मधिलत्य “षष्ठयां स्कन्दस्य कर्तव्या पूजा सर्वोपचारिका। इहैव सुखसौभाग्यमन्ते विष्णुपदं व्रजेत् ” ॥ इयमेव स्कन्दषष्ठो पञ्चमी युतैवोपोथा। "लणाष्टमी स्कन्दषष्ठौ शिवरात्रि चतुर्दशी। एताः पूर्वयुता: कार्यास्तिथ्यन्ते पारणं भवेत् ॥ इति ब्रह्मवैवर्तवचनात् विष्णुधर्मोत्तरे "अष्टमौञ्च तथा षष्ठी नवमौञ्च चतुर्दशौम्। शिरोऽभ्यङ्गं न कुर्वीत पर्वसन्धी तथैव च ॥
अथ सप्तमी। सा च षष्टीयता ग्राह्या युग्मात् पैठिनसिवचनाञ्च यथा “पञ्चमो सप्तमी चैव दशमौ च त्रयोदशी। प्रतिपनवमौ चैव कर्त्तव्या साम्म खौ तिथि:” ॥ साम्म ख्यमुक्त स्कान्दे “माम्म ख्यं नाम सायाङ्गव्यापिनी दृश्यते यदा'। अतएव परदिने त्रिसन्ध्य कालाव्यापित्वे षष्ठोयुक्तपञ्चम्यामुपवासमाह भविष्यपुराणं “षष्ठीसमेता कर्तव्या सप्तमो नाष्टमी यता। पतङ्गोपासनायेह षष्ठयामाहुरुपोषणम्” ॥ यथा उपोषणे तथा कर्मान्तरे तथा “षष्ठयायुता सप्तमौ च कर्तव्या सर्वदा तिथिः। षष्ठौ च सप्तमी यत्र तत्र सन्निहितो हरिः"॥ इति स्कन्दपुराणात् तथा “शुक्लपक्षस्य पञ्चम्यां सूर्यवागे यदा भवेत् । सप्तमौ विजया नाम तत्र दत्तं महाफलम्” ॥ भविष्ये "मालितण्डुल प्रस्थस्य कुादनं सुसंस्कृतम् । सूर्याय चरुकं दत्वा सप्तम्याञ्च विशेषतः ॥ यावन्तस्तण्डलास्तस्मिनैवेद्यपरिसंख्यया। तावहर्षसहस्राणि सूर्यलोके महीयते" ॥ गोपथब्राह्मणं "हाविंशत् पलिकं प्रस्थमुक्तं स्वयमथर्वणा" । ज्योतिष पलन्तु लोकिकानैः साष्टत्तिहिमाषकम्। तोलकत्रितयं जेयं ज्योतिज्ञैः स्मृतिसम्मतम्” ॥ तेन चतुरत्तिकाधिकमाषषञ्चाधिकषड़धिकशततोलकमिता: प्रस्थतण्डु ला इति एव
तत् न्यूनाधिकयोः फलतारतम्यं बोध्यम्। एवं देवतान्तरेऽपि तत्तलोकहितवफलेन कल्पयितुं युक्तम् अतएव शिवे.
For Private And Personal Use Only