________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४७५ युक्ता। यच्च नित्येऽपि खादिरवश्रवणं तत्काम्यस्यैव पशुबन्धनाय यपाश्रयज्ञापनार्थमती न नित्ये खादिरतेति प्राप्तेराद्धान्ताय चतु र्थाध्यायमूत्रम्। एकस्योभयत्वे संयोगपृथक्त्वमिति । तत्र संयोगः सम्बन्धमात्रम्। एकस्य खादिरस्य कवर्थव पुरुषार्थत्व रूपोभयात्मकत्वे वाक्यहयेन च क्रतुशेषत्व फलशेषत्व लक्षणसंयोगभेदावगमात् न नित्यानित्यसंयोगविरोधः। न चायज्ञा. नार्थं नित्यवाक्यम् । सविधानादेवायलाभात् अत उभयार्था खादिरतेति। एवं “दना जुहोति दनेन्द्रियकामस्य” इत्यादावभयार्थतैव दधित्वस्य हेधाश्रवणात्। तस्मात् प्रायश्चित्तं नित्यं नैमित्तिकं काम्यञ्चेत्यतो यत्र प्रसङ्गसम्भावना तत्र नित्यत्वात् काम्याभिलापदक्षिणाद्यङ्ग विनाऽपि प्रधाननिष्यत्त्या फलनिष्पत्तिः । अतएव "क्षयं केचिदुपात्तस्य दुरितस्य प्रचक्षते। अनुत्पित्तं तथा चान्ये प्रत्यवायस्य मन्वते ॥ नित्यक्रियां तथा चान्ये धनुसङ्गफलां श्रुतिम्” ॥ इति जावालभविष्यपुराणाभ्यां सङ्कल्यादिकं विनाऽपि सन्ध्यादिवत् नित्यकर्मणा कृतेनैव पापक्षय उक्त इति। नित्यक्रियां नित्या क्रिया यस्याः श्रुते: तां प्राप्येति शेषः। फलमिति पाठे तु छान्दसत्वम्। केवलावगोरणादौ प्रकारान्तरकृतप्रधाननिष्य. त्तिरूप-वाधकाभावेन काम्यत्वात् काम्याभिलापादिरपि क्रियते। वस्तुतस्तु काम्ये नित्ये वा वैदिकमात्रे यथा कथञ्चित् प्रधाननिष्पत्तौ नाङ्गानुष्ठानार्थे प्रधानाहत्तिः। तथाच छन्दोगपरिशिष्टम् । “प्रधानस्याक्रिया यत्र साङ्गं तत् क्रियते पुनः । तदङ्गस्याक्रियायान्तु नावृत्तिनं च तक्रिया” ॥ अतएव नान्दोमुखशाप्रकरणशेष प्रधानानामपि काम्यानां तत्तद्देशकालविहितानां तन्लेणैव सिद्धिरिति श्राइचिन्तामणिः । अथैवं मुमुक्षोनित्यकरणात् कथं न काम्यफलसिद्धिरिति चेन्न ।
For Private And Personal Use Only