________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४६
प्रायश्चित्ततत्त्वम् ।
" सम्यक् संसाधनं कमी कर्त्तव्यमधिकारिणा । निष्कामेच सदा पार्थ काम्यं कामान्वितेन च ॥ इति भविष्यपुराणेन स्वर्गादिकाम्ये कामनावतएवाधिकारात् अतएव काम्यो नैमित्तिको वार्थो नित्यमर्थं विकृत्याभिनिविशते न नित्य इत्युक्तम् । द्वादशाध्याये सम्यक् संसाधनं प्रथमकल्पादिना - करणं यस्य तत्तथा। अधिकारिणार्थिना विदुषा समर्थेन । निष्कामेणेति नित्यपरं मुमुक्षुपरच्च । प्रतएव मार्कण्डेयपुराऽपि फलार्थिनं प्रति तत्तत्फलदातृत्व' तदनर्थिनं मुमुचं प्रति मुक्तिदातृत्वं पितॄणामा रुचिः । “पितृनमस्ये दिवि ये च मूर्त्ताः स्वधा भुजः काम्यफलाभिसन्धौ । प्रदानशक्ताः सकलेप्सितानां विमुक्तिदा येऽनभिसंहितेषु" ॥ एवं देवतानामपि फलदातृत्वमधिकारिभेदेनेति ।
थाङ्गहोने काम्येsपि फलम् । ननु काम्ये श्रङ्गाभावे फलसिद्धौ साङ्गाहि वैदिककर्म्मणः फलावश्यम्भावनियम इत्यस्य सर्वशक्त्यधिकरणोक्तस्य का गतिरिति चेत् समग्रफलविषयतया गृहाण तथाच कल्पतरौ योगियाज्ञवल्कयः । " श्रद्धाविधि - समायुक्त कर्म यत् क्रियते नृभिः । सुविशुद्धेन भावेन तदानन्त्याय कल्पते ॥ श्रहा शास्त्रार्थे दृढ़प्रत्ययः । “प्रत्ययो धर्मकार्येषु तथा श्राद्धेत्युदाहृता । नास्ति श्रधानस्य धर्मकृत्ये प्रयोजनम्" ॥ इति देवलवचनात् । चत्राङ्गप्रकर्षेण फलप्रकर्ष उक्तः । अङ्गाप्रकर्षे तु न फलाभावः । किन्तु फलाल्पत्वमाह योगियाज्ञबल्काः । “भाषं छन्दव देवत्य' विनियोगस्तथैव च । वेदितव्यं प्रयत्नेन ब्राह्मणेन विशेषतः ” ॥ मन्त्राणामित्यनुषज्यते । मन्त्राणामित्यनुषज्यते । विशेषतो विशेषफलाय । " अविदित्वा तु यः कुय्यात् याजनाध्यापन जपम् । होममन्तर्जलादीनि तस्य चाल्पफलं भवेत् ॥ अन्तर्जलादीनि
For Private And Personal Use Only