________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४७२
प्रायश्चित्ततत्वम् । लिखितवन्तः। प्रायश्चित्तानन्तरं पापक्षयार्थं श्राई कर्तव्यमिति व्याख्यातवन्तश्चेति। शालाग्नावित्य पादानात् साम्नेरेव होमः । व्रतस्यान्त इति प्रायश्चित्तमावस्योपलक्षणम्। भविष्ये शुद्धये इति सामान्यतोऽभिधानात् । अन्यथा त्रैमासिकव्रताद्युतादक्षिणाविशेषस्तदनुकल्पधेनुदानादौ प्रायश्चित्तविवेकायु. तोऽपि न स्यात्। “वृषभैकादशा गाय दद्यात् सुरचितव्रतः" इत्यभिधानात् । एवञ्च शुविहेतुपावणाई जीवपितृकेणापि कर्तव्यं संस्काराङ्गविवाहवत्। नौवे पितरि वै पुत्रः बाहकालं विवर्जयेत् । येषां वापि पिता कुर्यात् तेषामेके प्रचक्षते ॥ इति हारोतवचनोत्तरान प्रधानसाङ्गतार्थ बाहविधानात्। एवं प्रायश्चित्तोत्तरकर्तव्यपापक्षयज्ञापकगोग्रास. स्यापि वाधः। यथा चरितव्रतविधौ याज्ञवल्क्यः। “घटेऽपवर्जिते जातिमध्यस्थो यवसं गवाम् । प्रदद्यात प्रथमं गोभिः सत्कृतस्य हि सक्रिया" ॥ अपवर्जिते प्रक्षिप्ते। "प्रायश्चित्ते तु चरिते पूर्णकुम्भमपां नवम्। तेनैव साई प्रास्येचुः सात्वा पुण्यजलाशये" ॥ इति मनतोः। तेन ज्ञातिना प्रास्ये युः क्षिपेयुः कृतप्रायश्चित्ता इति शेषः। गवां सत्कारश्च तहत्ततृणभक्षणमेव । यदि तु गावस्तहत्तयवसं न गृह्नौयुस्तदा पुनः प्रायश्चित्तमनुतिष्ठेत्। यथा शारीतः। “खशिरसा यवसमादाय गोभ्यो दद्यात् यदि ता: प्रमुदिता गृहीयुरथैनं प्रावर्तयेयुरिति । एनं कृतप्रायश्चित्तम् इतरथा नेत्यभिप्रेतमिति मिताक्षरा। एवञ्च हारौतयाज्ञवल्क्यवचनकवाक्यतया वक्ष्यमाणमनुवचनहयमपि सामान्यप्रायश्चित्तोत्तरकर्त्तव्यतापरम् । न तु प्रकरणादसत्प्रतिग्रहमानपरं ततश्चासत्प्रतिग्रहमानपरतया यत् कुल्लू कभट्टव्याख्यानं तत् प्रदर्शनमात्रपरम् । एवं घटापवर्जनमपि न पतितमात्रविषयम्। यथा मनुः ।
For Private And Personal Use Only