________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४७१ लोकावाप्तादिफसकलेन काम्यानां चान्द्रायणादीनां कचित् ख फला) कचिद्दोषघातार्थ कर्तव्यत्वं तत्र खफला) स्वं चान्द्रायणादिकं फलं येषां पापानां तानि तथा तदर्थं तनि मित्तं पापनिमित्तमिति यावत्। पापज्ञानवतएव चान्द्रा यणाद्याचरणात् । तत्फलत्वम् अतो नैमित्तिकलं दोषघातार्थम् अत: काम्यत्वम् प्रासत्तिक्रमणान्वयः। अतः पापक्षयकामनावदधिकारिकर्तव्यत्वेन पापनिश्चयवदधिकारिकर्तव्यत्वेन च काम्यत्व नैमित्तिकत्वञ्चेति योरेवावगम्यमानत्वात् जातेष्टिवदधिकारयोः सम्बलनम् इति एवञ्च काम्यस्य सर्वशत्यधिकरणे सर्वाङ्गोपेतस्यैव फलवत्वाभिधानात् तस्यापि प्रसङ्गविषयत्वेन काम्ये हि काम्याभिलापसहितकुशतिलजलत्यागरूपः सङ्कल्पः शास्त्रार्थ इति प्रक्रमाधिकरणोतेन । “प्रत्येक नियतं कालमात्मनो व्रतमादिशेत् । प्रायश्चित्तमुपासौनो वाग्यतस्त्रिसवनं स्पृशेत् ॥ इति शङ्खलिखितवचने प्रत्येक नियसं कालमिति तत्तत्वतकालसंख्याम् पात्मनो व्रतम् प्रामसम्बन्धित्वेन प्रात्मकर्तत्वेन इति यावत् । तेनामुकव्रतमहं करिथे इति चादिशेदुल्लेखं कुर्यात् इत्यनेन च प्राप्तस्य सङ्कल्पस्य वाधः। एवं तदन्ते दक्षिणाया: शुद्धयर्थं श्राइस्य च बाधः। तदभिहितं भविष्थे । "क्रियते शुद्धय यत्तु ब्राह्मणानाञ्च भोजनम् । शुद्यर्थमिति तत् प्रोक्तं वैनतेयमनौषिभिः" । यत्त शुद्धये इति प्रायश्चित्तादौ तदाह जावालः । “प्रारम्भे सर्वकच्छाणां समाप्तौ च विशेषतः। श्राई कुयात् व्रतस्यान्त गोहिरण्यानदक्षिणम्" इति। वाचस्पतिमिश्र पाह। तन्त्र समाप्तावित्यस्य व्याख्यातत्वात् व्रतस्यान्ते इत्यस्य पुनरुतात्वापत्तेच। श्राद्धविवेककारास्तु प्रारम्भ इत्यानन्तरम् "प्राज्येनैव हि शालाग्नौ जुहुयात् व्याहृतौः पृथक् । इत्यईमधिकं
For Private And Personal Use Only