________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४७०
प्रायश्चित्ततत्वम्। स्पशेत् आचामेत् हिजो न स्त्रौशूद्राविति मिताक्षरा। स्त्रौशूद्रा योस्तु दैवेन तीर्थेन। यथा नारदः "स्त्रियास्वैदशिकं तीर्थ शूद्रजातेस्तथैव च। सक्कदाचमनाच्छुधिरेतयोरेव चोभयोः । एवञ्च साधारणाङ्गमा प्रधान देश कालान्वयानियम इत्युताम् । यत्तु अङ्गानां प्रयोगविध्यै क्ये हि तन्वतेत्युक्तम् । तत्कर्तुसंस्कारकाङ्कभिन्नानामेव यथा श्रादभेदेादौनामिति ।
अथ प्रसङ्गः। अन्योद्देशेन प्रहत्तावन्यस्यापि सिदिः प्रसङ्गः । यथा पखर्थमनुष्ठितेन प्रयाजादिना पशतन्त्रमध्यपातिनः पुरोडाशस्यापि उपकारः सिद्यति। यथा वा तप्ते पयसि दध्यानयति। सा वैखदेव्यामिक्षा भवति वाजिभ्यो वाजिनमित्यवामिक्षार्थ प्रवृत्ती अनुद्दिश्य वाजिनस्यापि सिद्धिः। अतएव कचिदपचारे आमिक्षा पुरुषं प्रयोजयति न तु वाजिनम् । तस्य प्रसङ्गसिञ्चत्वादित्युक्तम् । श्रामिक्षा धनीभूतं पयः । तथाच भट्टवार्तिकम्। “पय एव घनीभूतमामिक्षेत्यभिधी. यते”। तदवशिष्टं नलं वाजिनम्। यथा वा काम्ययागनिष्यत्त्यर्थमनुष्ठितैराग्नेयादिभिनित्य यागसिद्धिरिति मिताक्षरोताम्। यथा वा दण्डनिपातप्रायश्चित्तेनैव गुरुणा तन्नान्त. गैयकावगोरणप्रायश्चित्तमपि सम्पद्यत इति प्रायश्चित्तविवे. कोतम्। तथा ब्राह्मणबधोद्देशेन हादशवार्षिके मृते क्षत्रिय बधनिमित्तकत्रै वार्षिक प्रायश्चित्तस्य सिद्धिः। एवञ्च तन्त्रप्रस.
योरनावृत्तेनैव कर्मणा नानादृष्टफलसिद्धी लाघवमेव हेतुः । नत्ववगोरणक्षत्रियबधप्रायश्चित्तयोः कथं प्रसङ्गेन सिद्धिः सङ्कल्पादेरभावात् तयोः सङ्कल्पादिः कुत इति चेत् प्रायश्चित्तत्वात् तथालेऽपि कथं सङ्कल्प इति चेत् काम्यत्वात्। काम्यत्वमाह जावालः । “काम्यानां वफलार्थच दोषघातार्थमेव च । अतः काम्यं नैमित्ति कञ्च प्रायश्चित्तमिति स्थितिः ॥ सहजतचन्द्र
For Private And Personal Use Only