________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्ततत्त्वम् ।
४६७
अन्य जादेः स्त्रियाः सङ्गे भोजने च प्रतिग्रहे । चण्डालस्पृष्टतोयादी गोमांसादौ च भक्षिते ॥ भार्य्यायां मातृवचने उपवौतस्य भेदने । निबध्यन्तेऽत्र संक्षेपात् सतां मुदमभीप्सता । प्रायश्चित्तविवेकादावन्यज्ज्ञेयं विचक्षणैः” ॥
अथ प्रायश्चित्तलक्षणम् । तत्र हारीतः । " प्रयतत्वाद्दीपचितमशुभं नाशयतीति” प्रायश्चित्तमिति यत्तपःप्रभृतिकं कर्म उपचितं सञ्चितमशुभं पापं नाशयतीति कृततत्तत्कर्मभिः कर्त्तुः प्रयतत्वात् वा शुद्धत्वादेव तत् प्रायश्चित्तं तथाच । पुनहरीतः । " यथा क्षारोपवेदचण्ड निर्योदनप्रक्षालनादिभिसांसि शान्ति एवं तपोदानयतैः पापकृतः शुद्धिमुपयान्ति " | शुद्धिं पापचयम् । यथा महाभारते । " अद्भिर्गात्रान् मलमिव तमो ह्यग्निभयाद् यथा । दानेन तपसा चैव सर्वपापमपोहति ॥ तेन पापचयमात्त्रसाधनत्वेन विधिबोधितं की प्रायचित्तम् । मात्रार्थलाभस्तु प्रयतत्वाहेत्येवकारार्थकबाशब्दात् । तथाच विश्वः । " वास्याद्दिकल्पोपमयोरेवार्थे च समुच्चये" । एवञ्च "अश्वमेधेन शान्ति महापातकिनस्त्विमे” । इति विष्णुक्तास्याश्वमेधस्यापि प्रायश्चित्तत्वम् । पापचयस्वर्मोभयसाधकस्य तु तस्यापि न प्रायश्चित्तत्वम् । प्रायश्चित्तस्य स्वध्वंसादिजनकत्वेऽपि तदंशे विधिबोधितत्वा
भावानासम्भवः ।
अथ तन्त्रप्रसङ्गकौ । तत्त्रानेकमुद्दिश्य सकृत् प्रवृत्तिस्तन्वता । यथा दर्शपौर्णमासयोराग्नेयादौनाम् । यथाग्नेयाष्टाकपालोऽमावास्यायां पौर्णमास्याच्चाच्युतो भवति उपांशुयाजमन्तरा यजति ताम्यामग्नौषो मौयमेकादशकपालं पौर्णमासे प्रायच्छत् ऐन्द्रं दध्यमावास्यायामेन्द्र पयो श्रमावास्यायामिति कस्वरूपज्ञापकरूपोत्पत्तिश्रुत्युक्तानां षषां प्रधानयागानां
For Private And Personal Use Only