SearchBrowseAboutContactDonate
Page Preview
Page 480
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्ततत्त्वम् । नमो गणेशाय। प्रणम्य सच्चिदानन्द सृष्टिस्थित्यन्तकारिणम् । प्रायश्चित्तस्य तत्त्वानि वक्ति औरघुनन्दनः ॥ "प्रायश्चित्तस्य लक्ष्मान तथा तन्त्रप्रसङ्गको। कर्ससंस्कार काङ्गानां प्रतिकर्मनिवर्तनम् ॥ गोग्रासभक्षणाच्छुष्तिस्तद. भावादशुद्धता। प्रायश्चित्तं भवेत्रित्वं काम्यं नैमित्तिकन्तथा । काम्यादण्यङ्गहानो स्यात् कियांस्तत्र फलोदयः। अहया लक्षणं पुण्यम ज्ञानादपि सम्भवेत् ॥ प्रायश्चित्तादिजातौयात्तादृक् पापविनाशनम् । गोधूमावयवे यव्यावयवस्तत्र साधकम् ॥ लाघवं गौरवं वौक्ष्य सकदात्तितस्तथा। दानव्रतादिमन्त्रेण पापमारस्य नाश्यता ॥ चान्द्रायणादौ ग्रासानां परिसंख्याव्यवस्थितिः। प्रायश्चित्ते गुरौ भूते लघुपापस्य संक्षयः ॥ गङ्गामाहात्माविस्तारो रानावपि च तत् क्रिया। बालादिना कृते पापे प्रायश्चित्तस्य होनता ॥ प्रायश्चित्ते तु वक्तव्येऽनुग्रहइयमेव हि। प्रायश्चित्तोपदेशादिचौराल्लाभविनिर्णयः । क्रयस्य निर्णयश्चैव तद्धाने: कालनिर्णयः। प्रायश्चित्तस्य पूर्वाहकत्यं बाल्यभिदा तथा ॥ धेनुमूल्यव्यवस्था च ज्ञानक्रतनिरूपणम् । विप्रादिस्वामिभेदेन गोबधव्रतनिर्णयः ॥ एकवर्षादिभेदेन रोधादेच निमित्ततः। अपालननिमित्तेन गीबधव्रतनिर्णयः ॥ अपवादो गोवधस्य नरस्य च बधे तथा। चाण्डालपतितादौनामोदनादेव भक्षणे ॥ प्रायश्चित्तविधिस्तव कृतघ्रस्य निरूपणम् । यवनादेस्तथोत्पत्तिस्तहास्यादौ व्रतन्तथा ॥ For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy