________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्वम् । चैव संविधत्तु सदा बुधः ॥ माङ्गल्यं पूर्णकुम्भश्च शिरःस्थाने निधापयेत् । वैदिकैर्गारमन्चै रक्षां कृत्वा खपेत्तत: ॥ गर्गः। *खरहे प्राक्शिराः शेते आयुष्ये दक्षिणा शिराः। प्रत्यक्थिराः प्रघासे तु न कदाचिदुदशिराः” ॥ मार्कण्डेयपुराणे। “प्राधिराः शयने विद्यात् धनमायुश्च दक्षिणे। पश्चिमे प्रबलां चिन्तां हानि मृत्यं तथोत्तरे" ॥ तथा नमस्कृत्याव्ययं विष्णुं समाधिस्थः खपेविशि”। मार्कण्डेयः । “शून्यालये श्मशाने च एकहक्षे चतुष्यथे। महादेवरहे चापि शर्करा लोष्ट्रपांशुषु ॥ धान्यगोविप्रदेवानां गुरूणाच तथोपरि। न चापि भग्नशयने नाशुचौ नाशुचिः स्वयम्। नावासा न नग्नश्च नोत्तरापरमस्तकः । नाकाशे सर्वशून्ये च न च चैत्यद्रुमे तथा" ॥ न स्वपेदित्यर्थः । __ अथ दागेपगमनविधिः। याज्ञवल्काः। षोड़शत्तुंनिशा स्त्रीणां तासु युग्मासु संविशेत् । ब्रह्मचार्येव पर्वण्याद्याश्चतसश्च वर्जयेत् ॥ स्त्रीणां षोड़शनिशा ऋतुः गर्भाधानयोग्यकालः । तथोक्तविधिना गच्छन् ब्रह्मचार्येव भवति तत्र व्रतादौ गच्छन् ब्रह्मचर्य स्खलनदोषो नास्तीति मिताक्षरा। पर्वाणि चोक्तानि। हारीतः। “चतुर्थेऽहनि नातायां युग्मासु च गर्भाधानम्। तदुपेत ब्रह्मगर्भ दधातौति” अत्र चतुर्थ्या रात्रौ यगर्भाधानमुक्त तद्रजोनिवृत्ती बोहव्यम्। “रजस्यु परते साध्वी नानेन स्त्री रजस्वला" इति मनुवचनैकवाक्यत्वात् । साध्वो गर्भाधानादिविहितकर्मयोग्येत्यर्थः। प्राद्याश्चतस्रो वर्जयेदिति तु रजोनिवृत्तीतरपरम्। चतुर्थी रात्री जातस्याप्रशस्तत्वमाहापस्तम्बः। "चतुर्थीप्रभृत्युत्तरोत्तराप्रजानिःश्रेयसार्थम्" इति मिताक्षरा मदनपारिजातयोः। नानानन्तरं पुनरपि रजोदर्शने विशेषमा हारीतः। “रजखला यदि
For Private And Personal Use Only