________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् । "गैरवे पुण्यनिलये पनादनिवासिनाम्। प्राणिनां सर्व. भूतानामक्षय्यमुपतिष्ठताम्" ॥ इत्यनेन शेषजलं त्यजेत। विष्णुपुराणम् । “भुक्ता सम्यगथाचम्य प्रामुखोदमुखोऽपि वा। यथावत् पुनराचामत् पाणौ प्रक्षाल्य मूलतः ॥ सुस्थः प्रशान्तचित्तस्तु कतासनपरिग्रहः। अभीष्टदेवतानाच कुर्वीत स्मरणं नरः ॥ अग्निराम्यायतां धातुं पार्थिवं पवनेरितः । दत्तावकाशो नभसा जरयत्वस्तु मे सुखम् ॥ अन्नं बलाय में भूमेरपामग्न्यनिलस्य । भवत्येतत् परिणतो मयास्वव्याहृतं सुखम् ॥ प्राणापानसमानानामुदानव्यानयोस्तथा । अत्र तुष्टिकरञ्चास्तु मयास्त्वव्याहृतं सुखम् ॥ अमत्यवहिवड़वा. नलच भुक्तं मयान जरयत्वशेषम्। सुखं ममैतत् परिणाम सम्भवं यच्छनरोगं मम चास्तु देहे" ॥ विष्णुः। “यथा समस्तेन्द्रिय देहि देहे प्रधानभूतो भगवान् यथैकः। सत्येन तेनाबविशेषमेतदारोग्यदं मे परिणाममेतु ॥ वीर्यवत्ता यथैवान्न परिणाममवैति ति। सत्येन तेन मद्भुतं जौर्यत्वमिदं तथा ॥ इत्यञ्चार्य स्वहस्तेन परिमृज्य तथोदरम्। अनायासप्रदायोनि कुयात् कर्मायतन्द्रित:" ॥ मार्कण्डेयः । “भूयोऽप्याचम्य कर्त्तव्यं ततस्ताम्ब लभक्षणम् । वशिष्ठः । “सुपूगश्च सुपर्णञ्च सुचर्णेन समन्वितम्। प्रदत्त्वा हिजदेवेभ्यस्ताम्ब लं वर्जयेद् बुधः । पर्णमूले भवेद्याधिः पर्णाग्रे पापसम्भवः । जौर्ण पर्ण हरेदायुः गिरा बुद्धिप्रणाशिनी” ॥
पथ षष्ठयामाईक्वत्यम् । “इतिहासपुराणाद्यैः षष्ठसप्तमको मयेत्। अष्टमे लोकयात्रा तु वहिः सध्या ततः परम् ॥ विष्णुपुराणम् । “सच्छास्त्रादिविनोदेन सन्मार्गादविरोधिना। दिन नयेत्ततः सध्यासुपतिष्ठेत् समाहितः । सन्ध्योपासनन्तु पूर्ववदेव । विशेषस्तु अग्निश्च मामन्युश्चेति मन्त्रणाचमनं
For Private And Personal Use Only