________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाङ्गिकतत्त्वम् ।
४५७ रुद्रस्य तपनस्य च। उपयुज्य च संमोहात् नरके पच्यते ध्रुवम् ॥ अतएव पुरश्चरणचन्द्रिकायाम्। “सुषुम्ना वर्मना पुष्पमाघ्रायोदामयेत् सुधीः ॥ निर्माल्य मस्तके धायें सर्वाड्रेष्वनुलेपनम् । नैवेद्यञ्चोपभुनौत दत्त्वा तद्भक्तिशालिने" ॥ विखसेनप्रभृतये। नन्दिकेश्वरपुराणम्। “दत्त्वा नैवेद्य. पुष्पाणि नाददीत कदाचन। त्यक्तव्यं शिवमुद्दिश्य तदा दानेन तत्फलम्" इति शिवदत्त विशेषः। "ब्रह्मचारि• गृहस्थैश्च वनस्थयतिभिः सह। भोक्तव्यं विष्णुनैवेद्य नाव कार्या विचारणा" ॥ एवञ्च तत् “हन्तकारञ्च नैवेद्य भुक्त्वा रुच्छ यतिश्चरेत् ॥ इति विष्णुनैवेद्येतरपरम्। तथाच । "अनुत् सृष्टेन सृष्टान्न ग्रासाई ग्रासमेव वा। विष्णोनिवेदितान्न यो नित्य भुङ्क्ते स मुक्तिभाक" ॥ स्त्रोत्सृष्टजलाशयजलोपयोगेऽपि न दोषः तथा हि। “प्रदद्यात् सर्वभूतेभ्यो जलपूर्ण जलाशयम्"। इति मत्स्यपुराणे जलाशयोत्सर्गस्य सर्वभूतेभ्य इत्यनेन प्रप्रकष्टचेतनोद्देश्यकत्वादुद्देश्यगतस्वामित्वाजननान दानत्वं किन्तु जल स्वखत्वे दूरीकरणेन नद्यादिवत् साधारणौकतम् अतएव “सामान्य' सर्वभूतेभ्यो मयोत्सृष्टमिद जलम्। रमन्तु सर्वभूतानि मानपानावगाहनैः” । इति मन्त्रलिङ्गेनोपादान विना कस्यापि न स्वत्वमिति । तत्साधारणजलस्य गोतमोक्तेन स्वामित्व श्रुतेः तदुतस्रष्टुरपि तथात्वे पुनः स्वामित्वात्तदुपयोगः । यथा गोतमः। "खामो ऋकथक्रयविभागपरिग्रहाधिगमेषु। ब्राह्मणस्यात्विज्यलब्ध क्षत्रियस्य विजितं निर्विष्टं वैश्यशूद्रयोः” ॥ इति परिग्रहोऽनन्यपूर्वस्य जलटणकाष्ठादेः खौकार इति मिताक्षरा। वृत्त्यधिकारी व्यक्तमाहापस्तम्बः। दायाद्य शिलोञ्छो चान्यच्चापरिग्रहीतम्" इति। अपरिग्टहौतमनन्यखोकतमखामिक
For Private And Personal Use Only