________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
३२
वचनं तच्छुक्लापरं शुक्लपचे तिथिर्ग्राह्येत्येकवाक्यत्वात् इति केचित्तच्चिन्त्यम् " चतुर्थीसंयुता काय्या पञ्चमी परया न तु । दैवे कर्मणि पैत्रे च शुक्लपक्षे तथासिते" इति कालमाधवीयधृतहारौतवचनात् । यद्यपि पैत्रे तन्निषेधो निरर्थकः युग्मवचनस्य देवक्कत्यमात्रपरत्वात् तथापि यथा आपराह्निके पित्र खतएव परविद्या न ग्राह्या तथा दैवेऽपौति विवक्षया देवपित्त्रयोः सहोपन्यासः” । ब्रह्मवैवर्त्तवचनन्तु स्कन्दोपवासविषयकमिति माधवाचाय्र्यः । अत्र पञ्चम्यामुपवासः षष्ठयां स्कन्दोपासनाय षष्ठीसमेता कर्त्तव्या सप्तमौ नाष्टमीयुता । पतङ्गोपासनायेह षष्ठयामाहुरुपोषणम् ॥ इति भविष्यपुराणोक्तवत् । पतङ्गः सूर्यः । तथा च वशिष्ठ: "कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रि चतुर्दशौ । एताः पूर्वयुताः कार्य्यास्तियन्ते पारणं भवेत्” ॥ वस्तुतस्तु पञ्चमौ परया न त्विति वचनान्तरैकवाक्यतया षष्ठाऽयुतेति पाठः । स्कन्दषष्ठौ वच्यते देवीपुराणे । “सुप्ते जनार्दन कृष्ण पञ्चम्यां भवनाङ्गने । पूजयेन्मनसादेवीं सहीविटपसंस्थिताम् । पद्मनाभे गते शय्यां देवैः सर्वैरनन्तरम् । पञ्चम्यामसिते पते समुत्तिष्ठति पद्मगौ” ॥ मनसादेवीं विषहरों सुहौ सिज वृक्षः । देवैरिति सहार्थे तृतीया । “देवीं संपूज्य नत्वा च न सर्पभयमाप्नुयात् । पञ्चम्यां पूजयेन्नागाननन्ताद्यान्महोरगान् । चौरं सर्पिस्तु नैवेद्य देयं सर्पविषापहम् " । मनसाध्यानं यथा पद्मपुराणम् "देवौमम्बामहोनां शशधरवदनां चारुकान्तिं वदान्याम् । हंसारूढामुदारामरुणितवसनां सर्वदां सर्वदैव । स्मरास्यां मण्डिताङ्गीं कणकमणि गणैर्नागर ने कैर्वन्देऽहं साष्टनागामुरुकुचयुगलां भोगिनीं कामरूपाम् । पुराणान्तरे । “अनन्तो वासुकिः पद्मो महापद्मोऽथ तक्षकः । कुलौर : कर्कटः शङ्खो ह्यष्टौ नागा प्रकीर्त्तिताः ॥ शेषः पद्मो महापद्मः कुलिकः शङ्खपालकः । वासुकिस्तचकश्चैव कालियो मणिभद्रकः ॥ ऐरावतो धृतराष्ट्र: कर्कोटकधनञ्जयौ" । गारुडेऽपि तत्रैव "अनन्तं वासुकिं शङ्खं पद्मं कम्बलमेव च । तथा कर्कोटकं नागं ष्टतराष्ट्रञ्च शङ्गकम् ॥ कालियं तक्षकञ्चापि पिङ्गलं मणिभद्रकम् । यजे
For Private And Personal Use Only