________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् । वैष्णवस्तथा ॥ प्रदोषशब्दोऽत्र प्रथमप्रहर इति हेमाद्रिः । रात्रिपर इति निर्णयामृतवद् भोजदेवः “शुक्ल पक्ष चतुर्थ्यान्तु सिंह चन्द्रस्य दर्शनम्। मिथ्याभिशापं कुरुते न पश्येत्तत्र तं ततः" चतुर्थ्यां दर्शननिषेधात्तत्रोदितस्य चन्द्रस्य पञ्चम्यां दर्शने तु न दोषः। अतः । “पञ्चाननगते मानी पक्षयोरुभयोरपि। चतुर्थ्यामुदितश्चन्द्रो नेक्षितव्यः कदाचन" ॥ चतुर्थी नेक्षितव्य इति मुनिभिरुदित उक्त इत्यर्थः । अथवा चतुर्थ्यामित्यस्य प्रधानक्रियान्वयाभ्यहितत्वादीक्षितव्य इत्यनेनान्वयो न तु उदित इत्यनेन तथा च "अव्यक्त प्रधानगामि” इति सूत्रे अव्यक्तस्य शब्दस्य प्रधानेन सह सम्बन्ध इति भट्टनारायण व्याख्यानम् इति उदितस्त्वोदितव्यावृत्तिपरः सरूपाख्यानपरो वा। "ब्राह्मणो तु शुनादष्टा जम्ब कोष्ट्रेग वा गवा। उदितं सोमनक्षत्न दृष्ट्वा सद्यः शुचिर्भवेत्” इति पराशरोतोदित इतिवत् नन्वेकपदस्य कथमने कातेति चेन्न यावन्तोऽर्थास्तावन्ति पदानौति तथा चोक्तम् । “यावतामेव धातूनां लिङ्ग रूढिगतं भवेत् । अर्थश्चैवाभिधेयस्तु तावद्भिगण विग्रहः” ॥ लिङ्गं सामथ्र्य रूढ़ि गतं प्रसिद्ध न त्वप्रसिद्ध हनहिंतागत्योरित्यादौ गमनादिकम् अभिधेयो वाच्यः तावद्भिर्धातुभिर्गुणविग्रहो गुणैर्गगानाभिविग्रहो ग्रहणं यत्रार्थे स तथा एतेन धातुसमसंख्यार्थत्वं पदस्य ब्रह्मपुराणे सिंहााधिकारी नारायणोऽभिशप्तस्तु निशाकरमरोचिषु। स्थितश्च तुर्थ्यामद्यापि मनुष्याय पतेच सः॥ अतश्चतुयां चन्द्रन्तु प्रमादादोक्ष्य मानवः। पठेद्दावेयिकावाक्यं प्रामखो वाय्युदन खः” ॥ अभिशप्तः वरौवादविषयोभूतः सोऽभिशापः। धायिकावाक्य विष्णु पुराणे। 'सिंहः प्रसेनमवधीत् सिंहो जाम्बवता इतः । सुकुमारक ! मा रोदोस्तव ह्येष स्यमन्तकः” ॥ अनेन मन्त्रेणाभिमन्त्रितं जलं पेयम् आचारात् स्यमन्तकोपाख्यानञ्च श्रोतव्यम्। माघे शक्लचतुष्यां गोरौ पूज्या वक्ष्यमागावचनात्।
अथ पञ्चमो। सा च चतुर्थीयुता ग्राह्या युग्मात् “पञ्चमी च प्रकर्तच्या चतुर्थीसहिता विभो' ! इति ब्रह्मपुराणाच्च । “अत्र पञ्चमौ तु प्रकर्तव्या षष्ठयायुक्ता तु नारद" ! इति ब्रह्मवैवर्त
For Private And Personal Use Only