SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५० आङ्गिकतत्त्वम् । पूज्यते ॥ ब्राह्मणकाम्ययात्वेकवारं यथाविधि नियुक्तः श्राहा. दाविति शेषः। तथाच यमः। “भक्षयेत् प्रोधितं मांसं सकृत् ब्राह्मणकाम्यया। दैवे नियुक्तः श्राई वा नियमे तु विवर्जयेत्” ॥ नियमे शास्त्रान्तरनिषिद्धतत्कालमांसभक्षणे । अतएव नियुक्तस्त्विति मनुवचनं तत्कालौनानिषिद्धमांसाभुगविषयमिति प्रायश्चित्तविवेकः । प्रेत्य परलोके। याज्ञवल्काः । "वसेत् स नरके घोरे दिनानि पशुरोमभिः। सम्मितानि दुराचारो यो हन्यविधिना पशून ॥ सर्वान् कामानवाप्नोति इयमेधफलं तथा। रहेऽपि निवसन् विप्रो मुनिमांसस्य वर्जनात् ॥ मनुः । *वर्षे वर्षेऽखमेधेन यो यजेत शतं समाः। मांसानि न तु खादेटु यस्तयोः पुण्यफलं समम् ॥ नारदोये । “न मत्स्य भक्षयेन्मासं न कौम्यं नान्यदेव हि। चण्डालो जायते राजन् कार्तिके मांसभक्षणात्" ॥ महाभारते। “कौमुदन्तु विशेषण शुक्लपक्षं नराधिप। वर्जयेत् सर्वमांसानि धर्मस्तत्र विधीयते ॥ कौमुदं कार्तिकम् । कार्तिकमधिकृत्य ब्रह्मपुराणे । “कार्तिकमासतत् शुक्लपचतदेकादश्यादिपञ्चदिनानि शताशतभेदात् पापतारतम्याहा निषिद्धानि"। भविष्थे। “प्रामिषं रत शाकञ्च यो भुङ्क्त च रवैर्दिने। सप्तजन्म भवेत् कुष्ठौ दरिद्रश्चोपजायते ॥ विष्णुपुराणे । “चतुर्दश्यष्टमी चैव अमावास्याथ पूर्णिमा। पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ स्त्रौतेलमांससम्भोगो पर्वस्खेतेषु वै पुमान्। विएम नभोजनं नाम नरकं प्रतिपद्यते” ॥ अव यद्यपि संक्रान्तिपदेन पुण्य कालो लक्ष्यते तथापि। “अष्टम्यां पक्षयोरन्ते रविसंक्रान्तिवासरे। पक्षोपान्ते स्त्रियं तैलं मौनञ्च परिवर्जयेत् ॥ इति ब्रह्मपुराणात् वासरपदग्रहणात् पुण्य कालोपलचितदिन एव For Private And Personal Use Only
SR No.020749
Book TitleSmruti Tattvasya Part 01
Original Sutra AuthorN/A
AuthorRaghunandan Bhattacharya
PublisherJivanand Vidyasagar
Publication Year1895
Total Pages963
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy