________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्वम् ।
४४४ थानि चैवाभिसूयन्ते पुष्पमूलफलैः शुभैः ॥ भनिर्दशायाः प्रसवानन्तरमनिर्गतदशाहाया: गोरिति छागमहिषोपलक्षम्। तथाच यमः। “पनिर्दशायागोःचौरमा माहिषमेव च ॥ एकशफमवाद्येकखुरसम्बन्धित्वात् सन्धिनी या ऋतुमती वृषमिच्छन्ति तस्याः सम्बन्धि। विवसायाश्च वत्सग्रहणादेव मोर्लाभे गोग्रहणं गोरेव न त्वजामहिष्योः। मृगाणामिति महिषप्रतिप्रसवात् पशुमात्रपरम्। शुक्तानि स्वभावतो मधुररसानि कालवशात् अम्लतां गतानि दधिसम्भवं तक्रादि । अभिसूयन्ते सन्धौयन्ते। शुभैर्मोहादिविकाराजनकैः । तथाच वृहस्पतिः। “कन्दमूलफलैः पुष्पः शस्तैः शक्तरसन्तु यत् । अविकारि भवेन्मेध्यमभक्ष्य हिकारतत् ॥ मनुः । “मत्यादः सर्वमांसादः तस्मान्मत्स्यान् विवज येत्। पाठौनरोहितावाद्यौ नियुक्ती हव्यकव्ययोः ॥ राजोवाः सिंहतुण्डाश्च सशल्फांश्चैव सर्वशः। सामान्यतः प्रवच्यामि विधि भक्षणवर्जने ॥ प्रोनित भक्षयेन्मासं ब्राह्मणानान्तु काम्यया। यथाविधिनियुक्तक्ष प्राणानामेव चात्यये ॥ प्राणस्थानमिदं सर्व प्रजापतिरकल्पयत् । जङ्गमं स्थावरचैव सर्व प्राणस्य भोजनम् ॥ क्रौत्वा स्वयं वाप्युत्पाद्य परोपकतमेव वा। देवान् पित चाचयित्वा खादन् मांसं न दुष्यति ॥ नाद्यादविधिना मांसं विधिज्ञो नापदि द्विजः । नियुक्तश्च यथा न्यायं यो मांसं नात्तिमानवः । स प्रेत्य पशुतां याति सम्भवानेकविंशतिम् ॥ प्रोक्षितं मन्चकातप्रोक्षणाख्यसंस्कारयुतं यज्ञहतपशुमांसविशिष्ट यनाङ्गत्वेन तदभक्ष्यम्। तथाच तत्रैवोक्तम् । “मन्वैस्तु संस्कृतानद्यात् शाश्वतं विधिना स्थितः ॥ इति आरखानां प्रोक्षितस्वमगस्त्येन तम्। तथाच महाभारते। “भारण्याः सर्वदैवत्याः प्रोचिताः सर्वशो मृगाः। अगस्त्य न पुरा राजन् मृगया येन
For Private And Personal Use Only