________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पाकितत्त्वम् ।
श्लेष्म पित्तकफापहम् ॥ हिङ्गुतीच्या कटुरसं शूलाजोर्णविबन्धनुत् । लघष्णं पाचनं स्रिग्धं दौपनं कफवातजित् ॥ जोरकं रुचिकृत् हृष्यं गन्धाढ्यं कफवातजित् । पाके तु कटुतीक्ष्णोष्णं लघु पित्ताग्निवर्धनम् ॥ धन्याकं मधुरं हृद्यं रोचनं चक्षुषोहितम् । कषायतिक्तकटुकं खादुशोतसुगन्धि च । काशच्छर्दिवृषा मोहनाशनं वह्निदौपनम् ॥ कफानिलहरं स्वर्यं विरुद्दानाह शूलनुत् । श्रार्द्रकं रोचनं हृद्यं कटूष्णं वृष्यमेव च ॥ कफा - निलहरं स्वयं विद्वानाह शूलनुत् । शठौ तु कफवातन्नौ सस्नेहा लघुदोपनौ ॥ विपाके मधुरा दृष्या कटुका दौपनोपरा । हरिद्रा कफपित्तघ्नो कण्डदुष्टव्रणापहा । पाण्डु शोधापचित् नौहत्वग्दोषविषमेहनुत् । पिप्पली मधुरा दृष्या कटुका atuatur | विाष्णा मारुतश्लेष्म काशश्वासांश्च नाश्रयेत् । भेदनं पिप्पलीमूलं दीपनं कृमिनाशनम् ॥ चविका गजपिप्पल्यौ पिप्पलीगुणवत् स्मृता । मरौचं लघु तोक्ष्णोष्णं रुचं रोचनदौनम् ॥ रसे पाके च कटुकं कफघ्न पित्तकोपनम् । स्वर्य्यं शुक्रहरं काशपोनसश्लेष्मवातजित् ॥ यमानौ कोष्ठशूलघ्नो हृद्या पित्ताग्निकारिणौ । रोचनौ कफवातन्नौ पाचनो कमिनाशिनी ॥ किञ्चिद्दीनगुणा तस्या यमानो क्षेत्रसम्भवा । सर्षपः श्लेष्म पित्तघ्नः सुतीक्ष्णो रक्तपित्तकृत् ॥ रसे पाके कटुग्धिकृमिकुष्ठापहा मतः । गुडुच्युष्णग्राहिबल्या विदोषघ्नौ रसायनो ॥ दौपनी ज्वरटट्छर्दिकामला वातरक्तनुत् । वासकः काशवै स्वरक्तपित्तकफापहः ॥
"
४४३
अथ फलगुणाः । " दाड़िमं हृद्यमम्लोष्णं वातघ्न ग्राहिदोपनम् । वृष्यं कषायमधुरं कफपित्तविरोधि च ॥ कर्कन्धुकोलवदरमस्त्रं वातकफापहम्। पक्कं पित्तानिलहरं स्निग्धास्तु मधुरं रम्। तच्छुष्क कफवातन्न' न च पित्ते विरुद्यति ॥
For Private And Personal Use Only