________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४४२
चाह्निकतत्त्वम् ।
वर्द्धिनौ च हृल्लासकाशारुचिनाशिनो च ॥ सा बाला कफपित्तना पक्का सूक्ष्मा च पित्तला । सदा फला विदोषत्रो रक्तपित्तप्रसादिनौ ॥ कुष्माण्डकं पित्तहरं बालं मेध्यं कफा - पहम्। पक्कं लघुष्णं सचारं दौपनं वस्तिशोधनम् ॥ सर्वदोषहरं हृद्यं पथ्यं चेतो विकारिणाम् । कुष्माण्डनालिका गुर्वी शर्करा कफरोगनुत् ॥ सचारा मधुरा रुच्या रुक्षा वातकफापहा । अलावुः शीतला गुर्वी मधुरा 'पित्तनाशिनी ॥ घातश्लेष्मक कक्षा दुर्जरा मलभेदिनी । पलावु नालिका गुर्वी शर्करा कफरोगनुत् ॥ कारवेल्लः स कर्कटो रोचनः कफपित्तनुत् । झिङ्गाकं कफपित्तघ्न गुरुविष्टम्भि वातलम् ॥ वपुषं मूत्रलं रुचं बालं पित्तहरं स्मृतम् । शूरणो दौपनो रुच्यः कफघ्नो विषदो लघुः ॥ विशेषादर्शसां पथ्यो भूकन्दस्त्वतिदोषलः । मानकं स्वादु पित्तच गुरुशोधहरं कटु ॥ कच्ची सदा कटुः सामवातकृत् गुरुपित्तला । कदल्या बलकुन्मलं वातपित्तहरं गुरु ॥ कुमुदोत्पलपद्मानां कन्दा मारुतनाशनाः । कषायाः पित्तशमना विपाके मधुरा इमे ॥ मांसं वातहरं वृष्यं वृंहणं बलवर्धनम् । प्रौणनं गुरुहृद्यञ्च मधुरं रसपाकयोः ॥ मत्स्यास्तु वृंहणाः सर्वे गुरवः शुक्रवर्द्धनाः । बल्या स्निग्धोष्णमधुराः कफपित्तकरा मताः ॥ श्रध्वव्यवायकायामदीप्ताग्नौनाञ्च पूजिताः । वातोद्भवा न वाधन्ते रोगा मत्स्याथिनः सदा । क्षुद्रमत्स्यास्तु लघवो ग्राहिणो ग्रहणौहिताः ॥
अथ लवणगुणाः । " सैन्धवं दौपनं हृद्यं चाक्षुष्यं रोचनं लघु । निग्धं वृष्यं त्रिदोषन मधुरं लवणोत्तम् ॥ सामुद्र मधुरं पाके नात्युष्णमवदाहि च । भेदनं स्रिग्धमोषच्च शूलघ्न नातिपित्तलम् ॥ लोकप्रचारिलवणं पाचनं दीपनं परम् । कफवातक्कमिहरं मेहनं पित्तकोपनम् ॥ पांशुजं तिक्तमुष्णञ्च
For Private And Personal Use Only