________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
४३०
श्रह्नितत्त्वम् ।
पक्केभ्य एव च । भुञ्जीतोड तसाराणि न कदाचिन्नरेश्वर ॥ नाशेषं पुरुषोऽश्रीयादन्यत्र जगतौपते । मध्वन्नदधिसर्पिभ्यः भक्तुभ्यश्च विवेकवान् ॥ श्रीयात्तन्मना भूत्वा पूर्वन्तु मधुरं रसम् । लवणाम्लौ तथा मध्ये कटुतिक्तादिकांस्तथा ॥ प्राग्द्रवं पुरुषोऽवन् वै मध्ये च कठिनाशनः । पुनरन्ते द्रवाशौ तु बलारोग्येण मुष्वति ॥ अनिन्द भचयेदित्यं वाग्यतोऽब्रमकुलयन् । पञ्चग्रासान् महामौनं प्राणाद्याध्ययनाय तत् ॥ मन्त्राभिमन्त्रितमिति मन्त्रानादेशे गायत्रौति वचनात् गायवाभिमन्त्रितम् । गारुड़े “शाकं सूपच्च भूयिष्ठम् अत्यन्नच विवर्जयेत् ॥ न चैकरससेवायां प्रसज्येत कदाचन" ॥ छन्दोगपरिशिष्टम् । “मुनिभिर्हिरशनमुक्त विप्राणां मर्त्यवासिनां नित्यम् । अहनि च तथा तमखिन्यां साईप्रहरयामान्तः " ॥ अहनि अचिरोदितास्तमितसुर्खेत र दिनमात्रे तत्राप्यायुर्वेदीये विशेषः । " याममध्ये न भोक्तव्यं त्रियामन्तु न लङ्घयेत् ॥ याममध्ये रसस्तिष्ठे वियामे तु रसचयः ॥ प्रागुक्तदचवचनात् तत्रापि पञ्चमयामार्दो मुख्यकालः । महामौनं हुङ्कारादिरहितम् । तथा चात्रि: "मौनव्रतं महाकष्टं हुङ्कारेणैव नश्यति । तथा सति महान् दोषस्तस्मात्तु नियतखरेत्” ॥ प्राणादिपदेन वच्यमाणप्राणापान समानोदानव्यानानां क्रमेण तेषां ग्रहणम् । एष क्रमः पौराणिकत्वात् सर्वसाधारणः । विष्णु: । "न तृतीयमथाश्रौयादापद्यपि कदाचन ॥ इति भगवहीतासु । "आयुः सत्त्वबलारोग्यसुखप्रीतिविवर्धनाः । रम्याः स्निग्धाः स्थिरा हया श्राहाराः साविकप्रियाः ॥ कटुन लवणात्युष्णतीक्ष्णरूक्षविदाहिनः । आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ॥ यातयामं गतरसं पूतिपर्युषितञ्च यत् । उच्छिष्टमपि चामेध्य भोजनं तामसप्रियम्” ॥ महाभारते ।
For Private And Personal Use Only