________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
पातिकतत्वम् । गिरिशायिनी खेतापराजिता। जम्बुवनजं खेतजवाकुसुमम्। विष्णुधर्मोत्तरे। "रक्ताशोकस्य कुसुममतसौकुसुमन्तथा। चम्पकस्य तु देयानि तथा भूचम्पकस्य च ॥ अतसौ शनः । नारदीयसप्तसहस्र । "मालतौ वकुलाशोकशेफाली मक्षमल्लिका। अम्बानतगराङ्गोठमल्लिकामधुपिण्डिका ॥ यूथिकाष्ठापदं कुन्द कदम्ब मधुपिङ्गलम्। पाटला चम्पकं कृष्ण लवङ्गमतिमुक्तकम् ॥ केतकं कुरुवकं विस्वं कारं वासकं हिज। पञ्चविंशतिपुष्पाणि लक्ष्मौतुल्यप्रियाणि मे ॥ स्कान्दे। "न धात्री सफला यत्र न विष्णोस्तुलसौवनम्। तं म्लेच्छदेशसदृशं यत्र नायान्ति वैष्णवाः ॥ य व मापरा मा यत्र हादशौ कबरः। तुलसी मालती धात्रौ तब विष्णुः श्रिया सह ॥ टूर्वा दहति पायानि धात्री हरति पातकम् । हरीतकी हरेद्रोगं तुलसी हरते वयम् ॥ तुलसीं प्राप्य यो नित्यं न करोति ममार्चनम्। तस्याहं प्रतिर हामि न पूजां दशवार्षिकम् ॥ अतएव "यहाति तुलसी शुष्कापि पर्युषितां इरिः। तथा "वज्यं पर्युषितं तोयं वज्यं पर्युषितं दलम् । न वज्यं जाह्नवौतोयं न वय तुलसौदलम् ॥ तुलसीपत्रमादाय य: करोति ममाचं नम्। न पुनर्योनिमानोति मुक्ति भागौ भवेहि सः ॥ तथा “समचरिदलयुक्त तुलमौसम्भवैः क्षिती। कुर्वन्ति पूजनं विष्णोस्तै कतार्थाः कलौ युगे ॥ माने ध्याने तथा दाने प्राशने केशवार्चने। तुलसौ दहते पापं कीर्तने रोपणे कलौ॥ तुलस्यमृतनामासि सदा त्वं केशवप्रिये। केशवाथै चिनोमि त्वां वरदा भव शोभने ॥ त्वदनसम्भवैर्देवं पूजयामि यथा हरिम्। तथा कुरु पवित्राङ्गि कती मलविलाशिनि ॥ मन्त्रेणानेन यः कुर्यात् गृहीत्वा तुलसीदलम्। पूजनं वासुदेवस्य लक्षकोटिफलं लभेत् ॥
For Private And Personal Use Only