________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् ।
३८९ सहस्रेण गायत्रो इन्ति दुष्कतम् ॥ सहस्रपरमां देवीं शतमध्यां दशा वराम्। गायत्रौन्तु जपैहितो न स पापेन लिप्यते" । नरसिंहपुराणे। "त्रिविधी जपयजः स्यात् तस्य भेदं निबोधत। वाचिकच उपांशुश्च मानसश्च विधा मतः ॥ त्रयाणां जपयज्ञानां श्रेयान् स्यादुत्तरोत्तरः। यत्रोचनौचस्वरितैः स्पष्टशब्दवदक्षरैः । मन्त्रमुच्चारयेद्यतां जपयज्ञः सवाचिकः । शनैरुच्चारयेन्मन्त्रमौषदोष्ठौ प्रचालयन् ॥ किञ्चित् शब्द स्वयं विद्यादुपांशुः स जपः मतः। ध्येया यदक्षरण्या वर्णावण पदात्पदम्। शब्दार्थमानसाभ्यासः स उक्तो मानसो जपः" । तेन स्वगदिमुव्यक्तवर्णोच्चारणवान् वाचनिकः। वयं ग्रहणयोग्य किञ्चित् शब्दवान् उपांशुः। जिह्वौष्ठचालनमन्तरेण वर्णार्थसन्धानात्मको मानसः ।
वाचिकोऽपि उच्चै पनिषेधमाह शङ्खः । “नोच्च जयं बुधः कुर्यात् सावित्रवास्तु विशेषतः। योगियाज्ञवल्क्यः । "न चंक्रमन् न विहसन् न पार्शमवलोकयन्। नोपाश्रितो न जल्पंश्च न प्रावृतशिरस्तथा ॥ न पदा पादमाक्रम्य न वै वहिः करौ म तौ। नैवं विधं जपं कुर्यात् न च संथावयेत् अपम् ॥ उत्तिष्ठन् वीक्ष्यमाणोऽर्कमासौन: प्रामु खो जपेत् । प्राक् कुशेष्ववमासौनो वसानो वाससौ शुभे ॥ यदि स्यात् क्लिन्नवासा वै गायत्रौमुदके जपत्। अन्यथा तु शुचौ भूम्यां कुशोपरि समाहितः" ॥ व्यासः। "जपकाले न भाषेत व्रतहोमादिकेषु च। एतेष्वेवावशतस्य यद्यागच्छेहिजोत्तमः । अभिवाद्य ततो विप्रयोगक्षेमञ्च कौतयेत् ॥ योगियाज्ञवल्करः । “यदि वाग्यामलोप: स्याज्जपादिषु कदाचन। व्याहरवैष्णवं मन्वं स्मरेहा विष्णुमव्ययम् ॥ गोतमः । "क्रोधं मोहं तुतं निद्रां निष्ठौवनविजम्भितम् । दर्शनं
For Private And Personal Use Only