________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८०
चाह्निकतत्त्वम् ।
I
विसर्जयेत्” ॥ तव तेनैवोक्तमन्त्रों यथा “उत्तरे शिखरे देवि भूम्यां पर्वतवासिनि । ब्राह्मणैः समनुज्ञाता गच्छ देवि यथासुखम् " ॥ तत आवाहनानन्तरं ध्यानं महाप्रयोग सारे पिटदयितोक्तसमानम् । यथा “ कुमारौमृग्वेदयुतां ब्रह्मरूपां विचिन्तयेत् । हंसा स्थितां कुशहस्तां सूर्यमण्डल संस्थिताम् ॥ मध्याह्नो विष्णुरूपाञ्च तायस्यां पौतवासौसम् । युवतीञ्च युजुर्वेदां सूर्यमण्डल संस्थिताम् ॥ सायाहे शिवरूपाञ्च वृडां वृषभवाहिनीम् । सूर्यमण्डलमध्यस्थां सामवेदसमायुताम् ॥ स्मृति: "गायत्रो ब्रह्मरूपा तु सावित्री विष्णुरूपिणौ । सरखती रुद्ररूपा उपास्या रूपभेदतः" || योगियाज्ञवल्क्यः । " पूर्वा सन्ध्या च गायत्री सावित्रौ मध्यमा स्मृता । या भवेत् पश्चिमा सन्ध्या विज्ञेया सा सरखती"
#1
2
करविन्यासाय स्मृतिः । “कुत्वोत्तानो करो प्रातःसायच्चाधोमुखौ करौ । मध्ये तिर्यक् करो प्रोक्तौ जप एवमुदाहृतः ॥ मध्ये समकराभ्यान्विति शौनकपाठः । शङ्खः । “तिस्रोऽङ्गुल्यस्त्रिपर्वाणो मध्यमा चैकपर्विका । अनामा मध्यमारभ्य जप एवमुदाहृतः " ॥ मदनपारिजातेऽपि । “मध्यमाया इयं पर्व जपकाले तु वर्जयेत् । एनं मेरु विजानीयाह षितं ब्रह्मणा स्वयम् ॥ अङ्गुष्ठाग्रेण यज्जप्त यज्जप्त मेरुलङ्घितम् । असंस्यातञ्च यज्जप्त तत्सर्वं निष्फलं भवेत् " ॥ श्रङ्गुष्ठाग्रस्य निषेधात् पर्वणा जपः । गोभिलः । " कदाचिदपि नो विद्वान् गायत्रीमुदके जपेत् । गायवाग्निमुखौ प्रोक्ता तस्मादुत्याय तां जपेत् ॥ यज्जले शुष्कवस्त्रेण स्थले चैवार्द्रवाससा । जप'होमो तथा दानं तत्सर्वं निष्फलं भवेत् ॥ गृहेषु तत्समं जयं गोष्ठ शतगुणं स्मृतम् । नद्यां शतसहस्रन्तु अनन्तं शिवसविधौ ॥ दशभिर्जन्मजनितं शतेन च पुराकृतम् । त्रियुगन्तु
For Private And Personal Use Only