________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आङ्गिकतत्त्वम् । वनितानाञ्च वर्जयेज्जपकर्मणि। प्राचामेत् सम्भवे चैषां स्मरेबिष्णु सुरार्चितम् ॥ बौधायनः । “नामेरधश्च संस्पर्श कर्मयुक्तो विवर्जयेत् । छन्दोगपरिशिष्टम् । "तिष्ठेदोदयनात् पूर्वी मध्यमामपि शक्तितः। आसौतोडगमाच्चान्त्यां सध्यां पूर्वत्रिक जपन् ॥ एतत् सन्ध्यावयं प्रोक्तं ब्राह्मण्यं यदधिष्ठितम्। यस्य नास्त्यादरस्तत्र न स ब्राह्मण उच्यते” ॥ पूर्वी प्राप्य सन्ध्यां सप्रणवव्याहृति सावित्रीरूपं त्रिकं जपन् पा उ. दयात् सूर्योदयपर्यन्तं तिष्ठेदुस्थितो भवेदित्यर्थः। एवं मध्यमामपि सन्ध्यां यथाशक्ति त्रिकं जपंस्तिष्ठेत् । पश्चिमान्तु
आ उडङ्गमात् नक्षत्रदर्शनपर्यन्तं जपत्रासोत उपविष्टः स्यात्। शङ्खः । “कुशवृष्थामासौनः कुशोत्तरायां वा पवित्रपाणिरुदन खः सूर्य्याभिमुखो वाक्षमालामादाय देवतां ध्यायन् जपं कुर्य्यादिति”। अत्र च । “प्रणवं पूर्वमुच्चार्य भूर्भुवः वस्ततः परम्। गायत्री प्रणवश्वान्ते जपे ह्येवमुदाहृता" ॥ इति योगियाज्ञवल्कोन जपे गायत्रया प्राद्यन्तप्रणवदयाभिधानात् प्रागुक्तत्रिकेऽपि प्रणवहयं बोध्यं किन्तु प्रणवत्वेनैक्यादविरुद्धम्। परवचनेन सध्याविधानमुपसंहृतम्। निन्दया तनित्यत्वाभिधानञ्च।
प्राणायामादिगायत्रौजपान्तं सन्ध्योपासनमाह गोभिलः । "तथातः सन्ध्योपासनविधिं व्याख्यास्यामः। सुप्रक्षालितपाणिपादवदन: उपविश्योपस्पृश्य प्रागग्रेषु दर्भेष प्राङ्मुख उदङ्मुखो वा बद्दशिखो यज्ञोपवीतौ ततः भूर्भुवः स्वमहजनस्तपः सत्यमिति सप्तव्याहृतमः प्रतिप्रणवाद्या गायनयापोज्योतिरसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् इति शिरो दश प्रणवसंयुक्तस्विरभ्यस्त पूरक कुम्भकरेचकाख्य प्राणायाम एवं बौन् कृत्वा सप्त वा षोड़शवाचामेत्। ततो माजनं प्रणवव्याहृति
For Private And Personal Use Only