________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
कितत्त्वम् ।
३८१
सन्ध्या समाख्याता सुनिभिस्तत्त्ववादिभिः” । सूर्य्यनक्षत्रवर्जितः । प्रस्तमितार्थोदित सूर्य मण्डलप्रकृष्टतेजो नचत्रवर्जितः । । तथा च वराहः " अर्थास्तमयात् सन्ध्या व्यक्तौभूता न तारका यावत् । तेजः परिहानिरुषाभानोरहृदयं यावत् ॥ अत्र प्राद्यन्तता उक्ता परिमाणमाह दक्षः । " रात्रन्तकाले नायौ द्वे सन्ध्यादिः काल उच्यते । दर्शनाद्रविरेखायास्तदन्तो मुनिभिः स्मृतः ॥ नाड़ीदण्डः । योगियाज्ञवल्का: "हासast च सततं दिनरात्रयोर्यथाक्रमम् । सन्ध्या मुहर्त्तमाख्याता हासही समा स्मृता ॥ अनोपासनाया अपि सन्ध्यात्वमाह व्यास " उपास्ते सन्धिवेलायां निशाया दिवसस्य च । तामेव सन्ध्यां तस्मात् प्रवदन्ति मनीषिणः” ॥ उपास्ते यद्दच्यमाणप्राणायामादिक्रिययेति यावत् । तत्काले उपास्यापि देवता सन्ख्या तथा च याज्ञवल्काः । “सन्धौ सन्ध्यामुपासीत नास्तगे नोहते रवौ" ॥ उपासनोपक्रममाह संवर्त्तः " प्रातः सन्ध्यां समचतामुपासीत यथाविधि । सादित्यां पश्चिमां सन्ध्यां अर्द्धास्तमितभास्कराम्” ॥ सनचत्रामित्यनेन तद्युक्तकाले उपक्रम्य प्रातः सन्ध्यामुपासोत [ एवमेवार्थास्तमितभास्कराधां पश्चिमां सादित्यामित्यनेन तदयुक्तकाले उपक्रम्य उपा सौतेत्यर्थः । मध्याह्नसन्ध्याया अष्टममुहर्त्तं कालमाह स्मृति: " पूर्वापर तथा सन्ध्ये सनचवे प्रकीर्त्तिते । समसूर्खेऽपि मध्याहे मुहर्त्ते सप्तमोपरि” ॥ संख्यायनगृह्य “अरण्य समित्पाणिः सन्ध्यामुपास्ते नित्यं वाग्यत उत्तरापराभिमुखीऽन्वष्टमदिममानचत्रदर्शनात् प्रतिक्रान्तायां महाव्याहृति: सावित्रीं स्वस्त्ययनादिजना एवं प्रातः प्रामुखः तिष्ठन् श्रमण्डलदर्शनादिति” । उत्तरापराभिमुखो वायुकोणाभिमुखः कोणं वियोति अन्वष्टममिशमिति । उभयदिगष्टमभाग
।
For Private And Personal Use Only