________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
आहिकतत्त्वम् । हितः। दद्यात् पित्रण तौर्थेन काम्यञ्चान्यत् मृणुष्व मे ॥ स्मृतिसारे कृतम्। “वामहस्ते तिलान् दत्त्वा जलमध्ये तु तर्पयेत्। सानशाव्यञ्चले पात्रे रोमकूपे न कुत्रचित्" । जलतर्पणे रोमरहितप्रदेश वामवाही वस्वाच्छादिते तिलान् संस्थाप्य मुद्रारहितदक्षिणहस्ततर्जन्यङ्गुष्ठयोरन्यतरेण तिलान् ग्रहीत्वा वामहस्ततलेन स्थापयित्वा तर्पयेदिति मदनपारिजातः। अतएव मरीचिः। "मुक्तहस्तञ्च दातव्यं न मुद्रां दर्शयेत् कचित्। वामहस्ते तिला प्राधा मुक्तहस्तञ्च दक्षिणम् ॥ मुताइव प्रसारितहस्तं यथा स्यात्। एवं मुद्रा प्रदेशिन्यष्ठयोगे सन्दंशरूपः । "मुक्तहस्तञ्च दक्षिणम्” इति दक्षिणहस्तं तिलरहितं कुर्यात् इति नैयतकालौन कल्पतरः । तथाच नारदीये "अङ्गुष्ठानामिकाभ्यान्तु दक्षिणस्येतरात तरात्। तिलान् यहोवा पात्र स्थान् ध्यात्वा संतर्पयेत् पितृन्” ॥ देवतः । “रोमसंस्थान् तिलान् कृत्वा यस्तु संतयेत् पितृन् । पितरस्तर्पितास्तेन रुधिरेण मलेन च" ॥ वृष्टिजलसम्पर्के तर्पणनिषेधमाह वायुपुराणम् । “मेधे वर्षति यः कुर्यात् तर्पणं ज्ञानदुर्बलः । पितॄणां नरके घोरे गतिस्तस्य भवेद् ध्रुवम् ॥ तथा “शूद्रोदकैन कुर्वीत तथा मेघादि निःसृतैः”। इति दर्शनादिति कौमुदी। योगियाज्ञवल्क्यः । "याद्ध तश्चेत्तु तिलान् संमिश्रयेज्जले। अतोऽन्यथा तु सव्येन तिला ग्राह्या विचक्षणः" ॥ पत्र शेषाई मदनपारिजात लिखितम् "अन्यथा वामहस्तेन ततस्तर्पणमाचरेदिति” । वायुपुराणम्। "तिलदर्भस्तु संयुक्त अदया यत् प्रतीयते। तत्सर्वममृतं भूत्वा पितृणामुपतिष्ठते" । स्मृतिः । “रविशुक्र दिने चैव हादश्यां श्राद्धवासरे। सप्तम्यां जन्मदिवसे न कुर्य्यात्तिलतर्पणम्” मत्स्यपुराणे "संक्रान्त्यां निशि सप्तम्यां रविशुक
For Private And Personal Use Only