________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
२४
तिथितत्त्वम् ।
" सहस्रन्तु पितुर्माता गौरवेणातिरिच्यते" इति मनुवचने सहस्रं पितृनपेक्ष्य यहौरवमुक्तं तत्पोषणरचार्थम् अतएव मनुः । " मृते भर्त्तरि पुत्रस्तु वाच्यो मातुररक्षिता" । वाच्यो गर्हणीयः अत्र वैदिकेतरमन्त्रपाठे शूद्रादेय्यधिकारः वेदमन्त्रवर्ज शूद्रस्य इति छन्दोगाहिकाचारचिन्तामणिष्टतस्मृतौ वैदेति विशेषणात् । एवञ्च पुराणमधिकृत्य " अध्येतव्यं न चान्येन ब्राह्मणं क्षत्रियं विना । श्रोतव्यमिह शटेग नाध्येतव्यं कदाचन" इति भविष्यपुराणवचनं पुराणमन्त्रेतरपरम् । पञ्चयज्ञस्नानश्राईषु पौराणिकमन्त्रेोऽपि निषिद्धः । शूद्रमधिकृत्य " नमस्कारेण मन्त्रेण पञ्चयज्ञान हापयेत्” इति याज्ञवल्कयेन "ब्रह्मक्षत्रविशामेव मन्त्रवत् स्रानमिष्यते । तृष्णो मेव हि शूद्रस्य सनमस्कारकं सतम” इति योगियाज्ञवल्क्येन श्रामधिकृत्य " अयमेव विधिः प्रोक्तः शूद्राणां मन्त्रवर्जितः । श्रमन्त्रस्य तु शूद्रस्य विप्रो मन्त्रेण गृह्यते” इति वराहपुराणेन च नमस्कारेणेति तृष्णोमिति मन्त्रवर्जित इति चाभिधानादेतत्परं वैदिकपरच शूद्राधिकारे गोतमवचनम् "अनुमतोऽस्य नमस्कारो मन्त्र” इति अनुपनीतस्यापि शूद्रसमत्व ेन श्राद्धातिरिक्त वेदपाठनिषेधमाह मनुः । " नाभिव्याहारयेदब्रह्मस्वधानिनयनादृते । शूद्रेण हि समस्तावत् यावद्देदे न जायते” ॥ स्त्रीणामपि वैदिकमन्त्रनिषेधमाह नृसिंहतापनौयम् । "सावित्रीं प्रणवं यजुर्लक्ष्मों स्त्रीशूद्रयोर्नेच्छन्ति सावित्रीं प्रणवं यजर्लक्ष्मों स्त्रीशूद्रो यदि जानौयात् समृतोऽधो गच्छति इति नेच्छन्तौति पर्यन्त पराशरभाष्येऽपि लिखितम् । जन्मतिथेः प्रागुक्त ब्रह्मपुराणोयत्वात् पौर्णमास्यन्तमासादारः । गृह्यपरिशिष्टम् । “उपाकर्म तथोत सर्गः प्रसवोऽष्टकादयः । मानवृडौ पराः कार्य्या वर्जयित्वा तु पैटकम् " ॥ श्रचाष्टका साहचर्या जन्माष्टम्यां तथा दर्शनाच प्रसवाड़ो जन्मदिनं द्वादशमासाः संवत्सरः क्वचित्तयोदशमासाः संवत्सर इति श्रुत्या वर्षे मासवृद्धिरूपा मानवृद्धिरुक्ता सैवात्र ग्राह्या न तु सौरे मासि तिथिद्दयलाभान्मानवृद्धिर्जीमूतवाहनोक्ता ग्राह्या तिथिद्दयलाभस्य मानवृद्धित्व प्रमाणाभावात् ।
For Private And Personal Use Only