________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४३ . पाक्षिकतत्त्वम् । शुचिर्भूत्वा हिराचमनेनेति शेषः। नरसिंहपुराणम् । "दन्तकाष्ठस्य वक्ष्यामि समासेन प्रशस्त ताम्। सर्वे कण्टकिनः पुण्याः क्षौरिणश्च यशस्विनः" ॥ पराई भारदस्यापि स्थौल्य. माह विष्णुः। “कनिष्ठाग्रसमस्थौल्यं सकूच हादशाङ्गलम् । प्रातर्भूत्वा च यतवाक् भक्षयेद्दन्तधावनम् ॥ प्रक्षाल्य भूत्वा तज्जह्यात् शुचौ देश समाहितः"॥ सकूच दलिताग्रम् । द्वादशाङ्गुलन्तु छन्दोगतरेषाम्। प्रातः प्रातःकाले भुत्ला भोजनपरकाले च भक्षयेदित्यर्थः मार्कण्डेयपुराणम् । “प्रक्षाल्य भक्षयेत् पूर्व प्रक्षाल्यैव तु तत् त्यजेत् । अत्र विहितकाष्ठाव्याह नृसिंहपुराणम्। “खदिरश्च कदम्बश्च करजश्व तथा वटः। तिन्तिडी वेणुपृष्ठच आम्बनिखौ तथैव च ॥ अपामार्गश्च विल्वस अथोड़म्बरस्तथा। एते प्रशस्ता: कथिता दन्तधावनकर्मसु ॥ महाभारते। "तिनं कषायं कटकं सुगन्धिकण्टकान्वितम्। चौरिणो वृक्षगुल्मानां भक्षयेद्दन्तधावनम्। भक्षयेत् शास्त्रदृष्टानि पर्वखपि च वर्जयेत्” । प्राण्याह विष्णुपुराणम्। “चतुर्दश्यष्टमौ चैव अमावास्याथ. पूर्णिमा। पर्वाण्येतानि राजेन्द्र रविसंक्रान्तिरेव च ॥ स्त्रीतैलमाषसम्भोगी पर्वस्वेतेषु वै पुमान् । विगम भोजनं नाम प्रयाति नरकं मृतः ॥ नरसिंहपुराणे "प्रतिपद्दर्शषष्ठीषु नवम्याञ्चैव सत्तमाः। दन्तानां काष्ठसंयोगाहहत्यासप्तमं कुलम् ॥ अलाभे दन्तकाष्ठानां प्रतिषिद्धदिने तथा। अपां हादशगण्डषैर्मुखशुद्धिर्विधीयते” ॥ गण्डषस्य दन्तधावनतुल्यवेऽपि न तन मन्त्रान्वयः बौहिकार्यकारिणि यवे ब्रीहि मवस्येव इति प्रकृतावेव श्रुतत्वात् मन्वलिङ्गविरोधाचति नव्यवईमानः । तत्र ततकात्याय नसूत्रविरोधात् । तच्च सूत्वं "शब्देविप्रतिपत्तिरिति”। प्रतिनिधिद्रव्ये श्रुतशब्दः
For Private And Personal Use Only