________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३३
पाहिकतत्वम् । संहत्य तिभिः पूर्वमास्यमेवमुपस्पृशेत्। अङ्गुष्ठेन प्रदेशिन्या घ्राणं पश्चादनन्तरम्। अङ्गुष्ठानामिकाभ्याञ्च चक्षुःश्रोत्रे पुनः पुनः । नाभिः कनिष्ठाङ्गष्ठेन हृदयन्तु तलेन वै। सर्वाभिस्तु शिरः पश्चात् बाहू चाग्रेण संस्पृशेत्"। पादप्रक्षालनं विशेष यति देवलः । “प्रथमं प्राङ्मुखः स्थित्वा पादौ प्रक्षालयेच्छनैः। उदङ्मुखो वा दैवत्ये पैटके दक्षिणामुखः'। शनैः रत्वरः। देवपेटकेतराबापस्तम्बः । “प्रत्यक् पादावसे चनमिति”। प्रत्यपश्चिमाभिमुखः। क्रममाह गोभिलः । "सव्यं पादमवनेनिजे" इति सव्य पादं प्रक्षालयति । “दक्षिणं पादमवननिजे" इति दक्षिणं पाद प्रक्षालयति। अहणीये तथादर्शनात् सर्वत्र तथा कल्पाते। पारस्करः । “सव्यं प्रक्षाल्य दक्षिणं प्रक्षालयतौति" सव्य प्रथमं प्रक्षालयतौति सूत्रेण प्राक्सव्यपादप्रक्षालने सिद्धे सव्य प्रक्षाल्य दक्षिणं प्रक्षालयतौत्यत्र सव्यग्रहणं सामान्यायं तेनान्यस्मिन्नपि पादप्रक्षालने सव्यस्येव प्राथम्यम् अन्यार्थ पूर्ववचनमिति दर्शनात् । ब्राह्मणखेद दक्षिणं प्रथममिति सूत्र तस्य पादौ यदि ब्राह्मणः प्रक्षालयति तदा दक्षिणं दातव्यप्रथममिति मन्तव्यं न सव्यं यथा प्रक्षालयतीत्वनुवृत्तावाखलायनः। “दक्षिणमने ब्राह्मणाय प्रयच्छेत् सव्य शूद्रायेति” स्वयं प्रक्षालने सव्यस्यैव प्राथम्य. मिति हरिशमा। एवञ्च दक्षिय पादप्रक्षालनानन्तरं वामपादप्रक्षालनं वाचस्पसिमिश्राद्युक्तं हेयमिति। आचमने पाणिपादप्रक्षालनं मूवाद्युत्सर्गे यथा वृडपराशरः । “कत्वाथ शौचं प्रक्षास्य पादौ हस्तौ च मृज्जलैः । निवदशिख प्रासौनो विज प्राचमनचरेत्। तत्वोपवीतं सव्येऽशे वाङ्मनः कायसंयतः" । आपस्तम्बः । “इत्येवमद्भिराजानु प्रक्षाल्य चरणौ पृथक् । इस्तौ चामनिवधाम्यां पश्चादासोत संयतः” ॥ आजानु आमनिबन्धा
For Private And Personal Use Only