________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३२
पाङ्गिकतत्त्वम् । दृष्टार्थतापत्तेः। आपस्तम्बः । “पथि पादस्तु विजेय प्रातः कुर्यादयथाबलम्"। एतयोविरोध पार्तानार्ताभ्यां परिहरपौयः। दक्षबौधायनौ। "देश काल तथात्मान' द्रव्यं द्रव्य प्रयोजनम् । उपपत्तिमवस्थाच ज्ञात्वा शौचं प्रकल्पयेत् ॥ ब्रह्मपुराणे । “न यावदुपनौयेत हिजः शूद्रस्तथाङ्गना । गन्धलेपक्षयकर शौच तेषां विधीयते ॥ प्रमाणं शौचसंख्या वा न शिष्टरुपदिश्यते। यावत् शहि स मन्येत तावत् शौच समाचरेत् । न्यनाधिक न कर्तव्य शौच शुद्धिमभौमता। प्रायश्चित्तं प्रसज्येत विहितातिक्रमे कते। शौचाचारविहीनस्य समस्ता निष्कता: क्रियाः" ॥ गन्धलेपक्षये सत्यधिकं न कर्त्तव्यं याज्ञवल्काविरोधात्। गन्धलेपाक्षयेत्वधिकसंख्ययापि याज्ञवल्कावच नमनुपनौतादि पर वा। व्याघ्रपादः । “शौचन्तु विविध प्रोक्तं वाह्यमाभ्यन्तरन्तथा। मजलाम्यां स्मृत वाह्य भावशुद्धिस्तथान्तरम्। गङ्गातोयेन कृत्स्नेन मृद्भारैश्च नगोपमैः। पामृत्योः स्नातकश्चैव भावदुष्टो न शुद्घति” । स्मृतिः। “धावन्तञ्च प्रमत्तञ्च मूत्रोच्चारकतन्तथा। भुजानमाचमनाहश्च नास्तिक नाभिवादयेत्। जन्मप्रभृति यत्किञ्चित् चेतसा धर्ममाचरेत्। सर्व तनिष्कलं याति एकहस्ताभिवादनात्"। ऋष्यशृङ्गः। “यस्मिन् स्थाने कृत शौचौं वारिणा तहिशोधयेत्। न शुद्विस्तु भवेत्तस्य मृत्तिका यो न शोधयेत्'। शौचानन्तरं हारीतः। 'गोमयेन मृदा वा कमण्डलु प्रमृज्य पूर्ववदुपस्पृश्य पादित्यं सोममग्निं वा वौक्षेत इति” अत्र मार्जनानन्तरंक्षालनमन्यत्र तथा दर्श. नात्। आचमनानन्तर सूर्यादिदर्शन यथा सम्भवम् ।
पाचमनविधिः । दक्षः। “प्रक्षाल्य पाणीपादौ च त्रिः पिवेदम्बुवौक्षितम् । संकृत्याङ्गुष्ठमूलेन विप्रमज्यात्ततो मुखम् ।
For Private And Personal Use Only