________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३२४
वाहतत्त्वम् ।
I
भ्रात्रापि संस्काय्येदेवदत्तपितुरित्यादि प्रयोज्यम् । निर्णयामृते मत्स्यपुराणम् " अन्नप्राशे च सौमन्ते पुत्रोत्पत्तिनिमित्तके । पुंसवने निषेके च नववेश्मप्रवेशने । देवलजजलादीनां प्रतिष्ठायां विशेषतः । तीर्थयात्रावृषोत्सर्गे वृडिया प्रकोर्त्तितम् । हलायुधष्टतकूर्मपुराणे । “ तौर्थयात्रासमारम्भे तौर्थात् प्रत्यागमेऽपि च । वृद्धिश्राद्धं प्रकुर्वीत बहुसर्पिः समन्वितम्" । तीर्थयात्रायां विशेषमाह ब्रह्मपुराणम् । “यो यः कश्चित्तोर्थ - यात्रान्तु गच्छ ेत् सुसंयतः स च पूर्वं ग्टहे खे । कृतोपवासः शुचिरप्रमत्तः सम्पूजयेत् भक्तिनम्रो गणेशम् । देवान् पितृन् ब्राह्मणांश्चैव साधून् धौमान् प्रीणयन् वित्तशक्त्या प्रयत्नात् । प्रत्यागतश्चापि पुनस्तथैव देवान् पितृन् ब्राह्मणान् पूजयेच्च । एवं कुर्वतस्तस्य तौर्घाद्यदुक्तं फलं तत् स्यान्नात्र सन्देह एव" । एवं सुसंयतः पूर्वदिने कृतैकभक्तादिनियमस्तदुत्तर दिने कृतोपवासस्तदुत्तरदिने गणेशं ग्रहानिष्टदेवताच्च संपूज्य वृद्धिवाद कृत्वा ब्राह्मणान् भोजयेत् ततः शुभलग्ने यात्रां कुय्यादिति तीर्थयात्रान्तु गच्छेदित्युपक्रम्य उपवासदिमं मुण्डनमपि । " प्रयागे तौर्थयात्रायां पितृमातृवियोगतः । कचानां पवनं कुर्य्यात् वृथा न विकचो भवेत्” । इति विष्णुपुराणात् प्रवेशेऽपि श्रकरणे तीर्थयात्रायामिति वक्तव्यं “गच्छन् देशान्तरं यस्तु श्राद्ध ं कुर्य्यात्तु सर्पिषा । यात्रार्थमिति तत् प्रोक्तं प्रवेशे च न संशयः” इति भविष्यपुराणादिति गङ्गावाक्यावलौ । वस्तुतस्तु तौर्थप्रत्यागमनोत्तरस्वग्टहप्रवेश इत्येव वक्तव्यं यात्राप्रत्यागमनोत्तरखग्टहप्रवेशयोर्भेदात् तौर्थप्रत्यागमनोत्तरलाभस्तु प्रत्यागतखापीति प्रागुक्तः ततः प्रवेशे चेति चकारेण श्राद्यमात्रं सूचितं न तु तस्य यात्रार्थत्वमपीति देवीपुराणे । अकालेप्यथ वा काले तौर्थश्राद्ध तथा नरैः । प्राप्ते
For Private And Personal Use Only