________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
मासेऽपि कर्तव्य नान्येषान्तु कदाचन" इति कालमाधवीयधृतपैठौनसिवचनैकवाक्यतया मलमासमतविषयकत्वाच्च न दोषः परवचनेनापि तदुभयथावस्याशौचपतितस्य मलमासाभ्यन्तरे कर्तव्यतोता न तु तद्भिवस्यानुपस्थितस्य राजमातण्डन एकादश्यां कर्त्तव्यतोतः। प्रचेताः “अविज्ञात मृते अमावास्यायां श्रवणदिवसे वा” इत्यनामावास्यायामपि मृताहाविदितथाविधानेनैकादश्यां प्रकुर्वीत कृष्ण पक्षे विशेषत इत्यमावस्यापेक्षयैवोपपत्तौ विशेषत इति श्रवणात् मैथिलोत शुक्ल कादश्यां तत्करणं न युक्तं एकादशीमात्रे प्रकुर्वीत कृष्ण पचे विशेषतः कुर्वीतेति वाक्यभेदापत्तेः। अस्मन्मते तु कृष्णपक्षे एकादश्याममावास्यापेक्षया विशेषतः कुर्वीतेत्येकं वाक्यं श्रवण दिवस इति मरणस्येति शेषः मृतशब्दोऽत्र मृताइपरोऽनिश्चित मृतस्योई देहिकाभावादिति श्राइविवेकः । मृताहनौत्येव सूत्र पाठो मैथिलपाश्चात्यदाक्षिणात्यानाम्। प्रनामावास्यायामिति गमनमाससम्बन्धिन्यां "प्रवासवासरे नेयं तन्मासेन्दुक्षयेऽथवा"। इति स्मरणादिति मिताक्षरा । एतच्च मृतदिनमासयोरझाने वक्ष्यमाणवृहस्पतिवचनात्। मृतमासे ज्ञाते मरणदिनाज्ञाने तु तदीयामावास्यायाम्। तथा च हेमाद्रिकालादर्शनिर्णयामृत नव्यवईमानतानि वचनानि । “वृहस्पतिः। न ज्ञायते मृताहश्चेत् प्रोषिते संस्थिते सति । मासश्चेत् प्रतिविज्ञातस्तद्दस्यान्मताहनि*॥ मृताहनौत्यत्र यत् कर्तव्यमिति शेषः प्रोषित इत्यज्ञान कारणोपलक्षणं मासाज्ञाने तिथिज्ञाने तु स एव “यदिमासो न विज्ञातो विज्ञातं दिनमेव हि। तदा मार्गशिरे मासि मावे वा तहिनं भवेत् ॥ कालादर्श निर्णयामृतयोर्मार्गशिर इत्यत्र आषाढ़क इति पाठः । भविष्यपुराणम् । “दिनमेव तु जानाति मासं नैव तु यो नरः । मार्गशौर्षे तथा भाद्रे माघे वा तद्दिनं भवेत् ॥ एषु मृताहावधारणताबिध्यान्मासविशेषो ग्राह्यः। मृतदिनमासयोरज्ञाने तु वृहस्पतिः “दिनमासौ न विज्ञातौ मरणस्य यदा पुनः । प्रस्थान दिनमासौ तु ग्राह्यो पूर्वोक्तया दिशा" पूर्वोक्तया दिशेति यथा मरण दिनमासनाने तद्ग्रहणं तयोरेकतरानाने
For Private And Personal Use Only