________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
१८
तिथितत्त्वम् । नियोजिताः। कृतार्थास्ते हि संवृत्ताः सपिण्डीकरणे कृते॥ प्रेतत्वाचेह निस्तीर्णाः प्राप्ताः पिटगणन्तु ते। यः सपिण्डौकृतं प्रेतं पृथक् पिण्ड नियोजयेत्। विधिनस्तेन भवति पिटहा चोपजायते”। इति शातातपवचने पिटत्वप्रास्यनन्तरं पृथक्करणं निषिदम्। अत्र तु षोडशश्राद्धासम्पत्त्या तदसिद्धौ पृथकरणेऽपि न दोषः छन्दोगपरिशिष्टवचनाञ्च तद्यथा “सपिण्डीकरणादूई न दद्यात् प्रतिमासिकम् । एको. द्दिष्टविधानेन दद्यादित्याह शौनकः ॥ न दद्यात् प्रतिमासिकमेकोद्दिष्ट विधानेनेति सम्बन्धात् दद्यादित्याह शौनक इत्यनेनै कोद्दिष्टस्यैवापकष्टसपिण्डीकरणादूई विकल्पोदर्शितः। स चाप्राप्तप्रेतभावविषय इति श्राद्धविवेकोतवत् भ्रमपतितमासिकविषयोऽपोति। प्रागुक्त लघुहारीतवचने विशेषत इत्यमावस्यापेक्षया तस्या अपि विघ्न विधानात् । यथा हेमाद्रिधतं षट्त्रिंशन्मतं "मासिके चाब्दिके त्वणि संप्राप्ते मृतस्तके। वदन्ति शुद्धौ तत्कायं दर्श चापि विचक्षणैः" ॥ राजमार्तण्ड “श्राइविघ्ने समुत्पन्ने अन्तरामृतसूतके। एकादश्यां प्रकुर्वीत कृष्णपक्षे विशेषतः ॥ श्राद्धविघ्ने समुत्य ने मृतस्याविदिते दिने। अमावास्यां प्रकुर्वोत वदन्त्ये के मनौषिण:"॥ पत्र मृतसूतकोपादानादृष्यशृङ्गवचनेऽशौचपदमेतत्परम् । यत्त्वन्तरामृतसूतकेऽपि एकदश्यां श्राद्धविधानं तन्न त्वन्या वै कदाचन इति ऋष्यशृङ्गवचनविरोधादशोचान्तदिने मलमासादिरूपविघ्नान्तरेण तदकरणे बोध्यम् । अतएव श्राद्धविवेके अपाटवाद्यशौचाभ्यामपि पतितमेकोद्दिष्टमेकादश्यामशौचान्ते च मलमासे न कर्तव्य किन्तु मलमासाव्याप्त कष्ण कादश्यामेवेत्युक्तम्। यत्तु “जातकमणि यत्थाई नव श्राद्धं तथैव च । प्रतिसंवत्सरं श्राद्धं मलमामेऽपि तत्स्मतम् । प्रतिसंवत्सरं बादमशौचात् पतितञ्च यत् ॥ मलमासेऽपि कर्त्तव्यमिति भांगुरिभाषितम्” ॥ इति ज्योतिर्वचनहयं तत्र पूर्ववचनशेषाई स्य "असंक्रान्तेऽपि कर्त्तव्यमाब्दिकं प्रथम हिजैः" इति लघुहारीतवचनैकवाक्यतया अन्त्याधिमासविषयकत्वात् “मलमास मृतानाञ्च श्राई यत्प्रतिवत्सरम् । मल
For Private And Personal Use Only