________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तिथितत्त्वम् ।
न लायेत् ॥ एतहचनं भुजबलभौमे भोजदेवेन तम्। वौधायन: “यो यस्य विहितः कालः कर्मणस्तदुपक्रमे। तिथि
भिमता सा तु कार्या नोपक्रमोज्मिता" ॥ अतएव मदनपारिजाते लोकाक्षि: "गणितात् जायते कालो यत्र तिष्ठन्ति देवताः। वरमेकाहुतिः काले नाकाले लक्षकोटयः” ॥
अथैवं षोड़शश्राद्धानां यथाक्रमस्यावश्यकवे भ्रान्त्या एकस्याप्य करणे तदादिश्राद्धानां पुन: करणप्रसङ्गः “प्रवृत्तमन्यथा कुयाट् यदि मोहात् कथञ्चन। यतस्तदन्यथा भूतं तत एव समापयेत्” इति छन्दोगपरिशिष्टादिति चेत्र क्रमरूपाङ्गानुरोधेन हि प्रधानोभूतवाद्धान्तराणामावृत्तेरयुक्तात्वात् किन्तु यत् पतितं तदेव कर्त्तव्यं तुल्य कक्षाणां षोड़शवाधानामेकतामिद्धौ षोड़शानामपूर्वाणामनुदये प्रधानापूसिद्धेदर्शापूर्ववत्। न चाङ्गासिद्धावपि समानमेतदिति वाच्य तेषां कथं स्यादित्याकाहायां पूर्वमुत्प ल्यमानतया प्रधानविषयोत्पत्तिवाक्यविषयत्वाभावात्। अतएव सर्वशत्यधिकरणेऽङ्गामिद्धावपि नित्ये कचित् प्रधानसिद्धिरिति सिद्धान्तः प्रधान कतरासिद्धौ तु प्रधानापूर्वसिद्धिः सर्वतन्त्र विरुद्द व अतएव छन्दोगपरिशिष्टम्। “समाप्ते यदि जानीयाम्मयैतद्यथा कृतम्। तावदेव पुनः कुयानावत्तिः सर्वकर्मण: ॥ प्रधानस्याक्रिया यत्र साङ्गतक्रियतं पुनः। तदङ्गस्याक्रियायान्तु नाहत्तिन च तक्रिया” इति नाहत्तिन साङ्गप्रधानावृत्तिः । न चेति न च सावन्मात्रस्याङ्गन्स्य करणं किन्तु तद्दगुण्यसमाधानार्थं विष्णु स्मरणमाह योगियाज्ञवल्करः। “अज्ञानाद् यदि वा मोहात् प्रच्यवेताध्वरेषु यत् । स्मरणादेव तहिष्णोः संपूर्ण स्यादिति श्रुति:" ॥ एवञ्च - प्रवृत्तमिति प्रागुक्तवचनं प्रयोगमध्य एव सुकरत्वेन बोध्यम्। न च सपिण्डनानन्तरं पतितमासिककरणे पुन: सपिण्डीकरणप्रसङ्गः। “सपिराहोकरणे वृत्ते पृथक्त्वं नोपपद्यते। पृथक्को तु कृते पश्चात् पुनः कार्या सपिण्डता" इति लघुहारोतवचनादिति वाच्यम् । तहचनस्य प्राप्तपिटलोकप्रेतस्य शास्त्रोल्लङ्घनपूर्वक मासिकादिकरणपरत्वात्। तथा च “प्रेतानामिह सर्वेषां ये सोच
For Private And Personal Use Only