________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३१४
श्राइतत्त्वम् । मित्यत्र निर्मित्तविशेषणत्वेन पुंस्त्वमविवचितम् अतएव लघुहारीतेनाप्युक्तं सपिण्डीकरणे "स्खेन भर्वा सहैवास्या: सपि - ण्डौकरणं स्त्रियाः । एकत्वं सा गता यस्माज्ञ्चरुमन्त्राहुतिव्रतैः । तस्मिन् सति सुताः कुर्य्युः पितामह्या सहैव तु । तस्यां चैव तु जीवन्त्यां तस्याः श्वश्रुति निश्चयः" इति । तदनु आयुष्यजपानन्तरं श्राद्धदानं श्राद्धीयद्रव्यदानं वशिष्ठक् इति वशिठेन इन्दोगग्टह्यपरिशिष्टे पावणे यो विधिरुक्तः सोऽत्रामिषव्यदामेन बोध्यः । यत्तु मधुमांसाभ्यञ्जनेति याज्ञवल्कवादी ब्रह्मचारिणो निषेधे सन्नियोगशिष्टत्वान्मांसनिषेधे मधुनिषेध इत्युक्तं निरामिषश्राद्धशेषघटितपिण्डानां पिण्डांस्तु दधिमध्वक्तानित्यादिना तदुक्तरूपविशेषणमात्रविधानान्नात्र फलचमन्यायेन श्रा मधुप्राप्तिरिति द्वैतनिर्णयोक्तञ्च तदयुक्त "शाल्यनं दधिमध्वक्तं वदराणि यवांस्तथा । मिश्रक्कत्य च चत्वारि पिण्डान् श्रौफलसन्निभान् ” । इति ब्रह्मपुराणवचनेन पिण्डघटकान्रस्य दधिमध्वक्तत्वेन च पिण्डस्य सर्वस्मात् प्रक्कतादनात् उद्धृत्य इत्यनेन श्रादशेषद्रव्य कर्त्तव्यतया फलचमसन्यायेन वा ष्वपि मधुप्राप्तः । एवमेव श्रातप्रदोपे वर्द्धमानोपाध्यायाः । तत्र्यायश्च राजन्यवैश्य कर्त्तके ज्योतिष्टोमे फलचमसमस्मै भच्यं ददातीति श्रुत्या ऋत्विग्भच्यत्वेन फलचमसविधानात् ऋत्विग्भक्ष्यस्य च यज्ञशेषद्रव्यत्व ेन तत्सि यज्ञेऽपि फलचमसलाभ: फलचमसश्च दविमिश्रितवत्वक्चूर्णमिति । श्रतएव मधुजपोऽत्रोत्सर्गानन्तरं मधुवाता इत्यादि जपश्चाभ्युदधिके मधुसत्त्व मधुद्रव्यप्रकाशकत्वात् दृष्टार्थकः अन्यथा दृष्टार्थकता स्यात् । व्यक्तमाह गोभिलभाष्ये यशोधरष्धृतवचनम् । " कृत्वा नान्दीमुखश्राद्धं दधिमध्वाज्यद्रव्यकम् । अनञ्च प्राथयेदन्नपत इत्यभिमन्त्रितम्” । गोभिला नुक्तस्यान्नप्राशनस्यास्य
For Private And Personal Use Only