________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्रातत्त्वम् |
૩
स्वयमाचमेत्” ॥ एकं प्रेतपात्र वामेन अनन्तरं दक्षिणेन गृहौत्वेति सम्बन्धः । ये समाना इति मन्त्रद्दयं पठन् प्रेतपात्रस्थम् उत्सृष्टजलं कुमरेखात्रयेण चतुर्धा विभज्य भागमेकं प्रेतपावस्थं नलं चिपेत् दद्यात् उत्सृष्टजल पिण्ड योर्विभागे मन्त्रस्य करणत्वं व्यक्तमाह शातातपः “निरुप्य चतुरः पिण्डान् पिण्डदः प्रतिनामतः । ये समाना इति द्वाभ्यामाद्यन्तु विभजेत्तिधा । एष एव विधि: पूर्वमर्घ्य पाचचतुष्टये ॥ ततः तदनन्तरं तन्मन्त्रैः पितामहादिभेदेन विरा वृत्तैर्या दिव्या इति मन्त्रैश्चकारात् पितामहाद्युत्सर्गवाक्यै रयमुत्सृज्य ये समाना इति द्वाभ्यां मन्त्राभ्यामर्थ्यं पुष्पोदकं तज्जलं प्रेतपात्रस्थजलं तेनैव विधिना प्रत्येकं पूर्ववत् चतुर्भागरूपं प्रेतपात्त्रात् समर्पयेत् तेभ्यः पितामहादिभ्यस्त्रिभ्यस्तस्मिमिश्रितपुष्प तिलोदकरूपमर्घ्यं निवेद्य तद्ब्राह्मणहस्ते प्रक्षिप्य पचादाचामेदित्यर्थः तेन प्रेतब्राह्मणहस्ते उत्सृज्य दत्तस्यैवाय' जलस्य तदवशिष्टजलस्य भागत्रयं पितामहादुत्सृष्टार्थ्यांजलेषु मिश्रीकत्तव्यमिति प्रतीयते । अतएव दत्तस्यैव प्रेतपिण्डस्य मिश्रीभाव इति श्राद्धविवेकः । यच्च न च " अत्र दैवं भोजयेत् प्रागेवं दैवेऽय मन्त्राद्यञ्च दत्त्वा गन्धमाल्यैः पात्रमर्चयित्वा तशेषं पितृभ्यः पात्रेषु दद्यात्” इत्याश्वलायनवचने पितृपra दैवं न मिश्र येदिति कल्पतरु व्याख्यानानुरोधेन मैथिलोक्त सर्वशाखिनान्तथाचरणं तन्त्र युक्तम् श्रश्वलायनेन काण्डानुशयस्योक्तात् वहुचानामेव तथा युक्तत्वात् न सामगयजुर्वेदिनोः तयोः पदार्थानुशयस्योक्तत्वात् श्रतएव श्राद्धसूत्र समत्रये मन्त्रदर्शनात्तत्रैव मन्त्रान्वयः पितृदयितादावुक्तः । वस्तुतस्तु पौराणिकत्वात् देवताभ्य इत्यस्य पाठवत साधारणस्मृतिकारशातातपोक्तत्वाच्च विभागेऽपि मन्त्रान्वयो युक्तः अतएव मैथिलैरपि तथा लिखितमिति ।
For Private And Personal Use Only