________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
श्राहतत्त्वम् ।
२८१
सिकइयसपिण्डीकरणापकर्षः सिप्रतीति सुधीभिर्भाव्यम् । यदहर्वा वृडिरिति वृष्टिराशास्यमानं पुंसवनादि । आपयेत श्रासन्ना भवति तद्दिनेऽपि सपिण्डीकरणम् । तथाहि “ प्रागावर्त्तनादह्नः कालं विद्यात्” इति गोभिलग्टह्यसूत्रेण पुंसवनादिरूपवृद्धेर्यामद्दयाभ्यन्तरे विधानात् सपिण्डीकरणस्य थापराह्न विधानात्तयोः कालयोरवाधाय वृद्धिपूर्वदिने अपकर्षः । ननु सपिण्डीकरणस्यापराह्निकत्वे किं प्रमाणमिति - चेत् “अपराह्णे तु पैटकम्" इत्युत्सर्गवचनम् । किञ्च यद्यप्यदन्तकः पूषापैष्टमत्ति सदाचरुम् । अग्नौन्द्रेश्वर सामान्या 'तण्डुलोऽव विधीयते ॥ इति छन्दोगपरिशिष्टवचने यथा बहूनामनुरोधात्तण्डुलचरुनै कानुरोधात् पैष्टचरुः । “विरुद्धधसमवाये भूयंसां स्यात् साधकत्वम्” इति जैमिनिसूत्रात् तद्ददत्रापि बहुदेवताकपार्वणानुरोधादेकोद्दिष्ट कालबाध इति । एवच संवत्सरमधिक्कत्य " सपिण्डीकरणन्तस्मिन् काले राजेन्द्र तत् शृणु । एकोद्दिष्टविधानेन काय्र्यन्तदपि पार्थिव " ॥ इति विष्णुपुराणो मे कोद्दिष्टांशे तदिति कर्त्तव्यतापरं न तु तत्कालपरम् । तथाच परिशिष्टप्रकाश घृतम् । श्रायमुपक्रम्य कुर्वीत सहपिण्डताम् । तयोः पार्वणवत् पूर्वमेकोद्दिष्टमथापरम्" इति ॥ एवञ्च शुद्धितत्वलिखितस्यमन्तकोपाख्यानवत् वृद्धि निश्चित्य कृतं सपिण्डीकरणं तदानीं विघ्न ेन वृड्डाभावेSपि प्रारम्भकालान्तरं पूर्णसंवत्सरं प्राप्य पितृत्वप्रापकमिति न सपिण्डनान्तरम् । अत्र " खः कर्त्तास्मीति निश्चित्य दाता विप्रानिमन्त्रयेत्" । इतिवनिश्चित्येति उत्कटकोटिकसभावनोपलचणं भविष्यत्रिमित्तस्य कर्माणः प्रत्यूहाईत्वात् । एवञ्च वृश्रिा यदर्थं कृतं तत्कर्म चेत् विघ्नात्तहिने न क्रियते तदा दिनान्तरे तत् कर्माणि क्रियमाणे तदङ्गत्वात् पुनर्बुद्धि
For Private And Personal Use Only